#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00537 Uniform title: muṇḍamālātantram 1 Editor : rasika mohana caṭṭopādhyāya Description: This tantra is a different text from muṇḍamālātantra II, though they coincide in their contents and concerns and belong to the same period. A fairly late tantra. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark S.G. Dyczkowski. Revision 0: Sept. 19, 2021 Publisher : Publication year : Publication city : Calcutta Publication country : India #################################################### कैलासशिखरे रम्ये गन्धर्वगणसेविते | हरवक्षःस्थिता देवी पृच्छति स्म नगात्मजा || १ || श्रीदेवी उवाच देवदेव महादेव सृष्टिस्थित्यन्तकारक | नीलकण्ठ जगन्नाथ प्रभो शङ्कर भो हर || २ || नमस्तुभ्यं जगन्नाथ मम नाथामरप्रभो | शरणाऽऽगत - दीनार्त्त - परित्राण - परायण || ३ || सर्वाधार निराधार साधार धरणीधर | वेदविद्याधराधार गङ्गाधर नमोऽस्तु ते || ४ || श्रुतं परमतन्त्रं वै सारात् सारं परात् परम् | यत् श्रुत्वा शीघ्रमायाति शिवलोकमनामयम् || ५ || कालीतन्त्रे कुब्जिकायां तथा कालीविलासके | डामरे यामले कालीसर्वस्वे योनितन्त्रके || ६ || सम्मोहने विक्रमे च तन्त्रे चैव कुलार्णवे | मातृकाभेदतन्त्रे च समयाचारतन्त्रके || ७ || वीरतन्त्रे तोडले च तथा भैरवतन्त्रके | ज्ञानतन्त्रे च निर्वाणे श्रुतं परममादरात् || ८ || इदानीं श्रोतुमिच्छामि गुह्याद् गुह्यतरं परम् | सारात् सारतरं देव पावनं सर्वदेहिनाम् | श्रुत्वा जीवः शिवत्वं च लभते नात्र संशयः || ९ || श्रीशिव उवाच धन्यासि पतिभक्तासि प्राणतुल्यासि शङ्करि | योषिच्चपलभावत्वात् पुरा नोक्तं त्वयि प्रिये || १० || इदानीं स्थिरतां ज्ञात्वा कथयामि त्वयि प्रिये | अस्ति चैकं मुण्डमालातन्त्रं परमसाधनम् || ११ || ज्ञात्वा जीवः शिवो भूत्वा विहरेत् क्षितिमण्डले | अतिगोप्यं महेशानि तन्त्रराजं मनोहरम् || १२ || मुण्डे मुण्डे च कथितं कथितं मुण्डमालया | शृणु गुह्यं वरारोहे किं पृच्छसि नगात्मजे || १३ || श्रीपार्वती उवाच देवदेव महादेव विश्वनाथ महेश्वर | त्रयाणामेवमाचारं त्रयाणां भावशोधनम् | त्रयाणां समयाचारं येन दुर्गा प्रसीदति || १४ || श्रीशिव उवाच यथा काली तथा तारा तथा त्रिपुरसनुदरी | भैरवी तु वना विद्या छिन्ना च बगलामुखी || १५ || धूमा भीमाऽन्नपूर्णा च दुर्गा च कमलात्मिका | मातङ्गी धनदा पर्णावती सर्वार्थसिद्धिदा || १६ || नानादेवी महाविद्या उपविद्यां पृथक् पृथक् | नानातन्त्रे महेशानि कथिता शिवसुन्दरि || १७ || आचारं विविधं दुर्गे दक्षिणं दक्षिणेतरम् | मुण्डमालामहातन्त्रं सर्वेषां ज्ञानसाधनम् || १८ || एका दुर्गा महेशानि एको देवः सदाशिवः | अहमेकः शिवो देवो नान्यो देवः कथञ्चन || १९ || सा वै भवानी मे पत्नी सर्वदा ज्ञानमालभेत् | तदैव जायते सिद्धिर्भक्तिरव्यभिचारिणी || २० || ज्ञानं विना परं तत्त्वं न जानामि महीतले | अत एव परं ज्ञानं भावयेत् सर्वकोविदः || २१ || दुर्लभ्यं शृणु देवेशि मम साधनकारणम् | अतः परतरं देवि दुर्गमं परसाधनम् || २२ || सर्वशान्तिकरं चैव सर्वदुःखहरं परम् | सर्वरोगक्षयकरं सर्वसाधनशोधनम् || २३ || ब्रह्मादीनां च दुर्लभ्यं सर्वेषां शिवदुर्लभम् | यः शाक्तो धरणीमध्ये स शिवो नात्र संशयः || २४ || यासां विज्ञानमात्रेण जीवन्मुक्तः प्रजायते | भक्त्या भक्त्या जपेन्मन्त्रं साधको धरणीतले || २५ || जीवन्मुक्तः सदा मुक्तः सर्वकर्मसु कोविदः | योऽन्येभ्यो दर्शयेद् यश्च भुक्तिं मुक्तिं च काङ्क्षति || २६ || स्वप्नलब्धघनेनैव धनवान् स भवेद् यदि | शुक्तौ रजतविभ्रान्तिर्यथा जायेत पार्वति || २७ || तथान्यदर्शनेभ्यश्च भुक्तिं मुक्तिं च काङ्क्षति | विना दुर्गां न मे ज्ञानं विना दुर्गां न मे रतिः || २८ || विना दुर्गां न निर्वाणं सत्यं सत्यं वदाम्यहम् | न त्र्यक्षा भक्तिरमला प्रेयसी परमा क्रिया || २९ || शक्तिद्वयं समाश्रित्य शक्तेः परमपूजकः | आद्यं देवि सुदुर्ज्ञेयं मध्यं पञ्च विभूषितम् || ३० || शेषं कुलमयेनेशं नास्ति नास्ति वरानने | सत्यं वेद्मि हितं वेद्मि पुनर्वेद्मि वरानने || ३१ || विना दुर्गापरिज्ञानात् को वा तरति कोविदः | को वेद परमं तत्त्वं को वेद निखिलं पदम् || ३२ || को वेद भैरवाचारं यो वेद स च कोविदः | स कुलीनः स शूरश्च स पञ्चमविभूषितः || ३३ || यो जानाति जगद्धात्रि जगदीशे जयावहे | मध्यस्थः पार्वतीतत्त्वं न पुनर्देहभाग्भवेत् || ३४ || आदौ गुरुं समभ्यर्च्य अन्ते परमसाधनम् | क्रियाशक्तिरतो जन्तुः सर्वभाग् जायते खलु || ३५ || निदानं नास्ति दुर्गाया ममैव जगदम्बिके | अन्येषामस्ति वै स्वर्गे धरणीतलकेतने || ३६ || अतः सत्यं पुनः सत्यं पुनः सत्यं वदाम्यहम् | भावाभावसमायुक्ता यान्ति मोक्षं निरामयम् || ३७ || या पृच्छा ते निगदिता सर्वं जानामि शङ्करि | विदिता परमा विद्या करालवदना शिवा || ३८ || एतस्याश्चरितं यस्तु एतस्याः साधकस्य च | चरितं दुर्लभं लोके तेषां मध्ये वदाम्यहम् || ३९ || गुरुरेकः शिवः साक्षाद् गुरुः सर्वार्थसाधकः | गुरुरेव परं तत्त्वं सर्वं गुरुमयं जगत् || ४० || विना गुरुप्रसादेन कोटिपुरश्चरणेन किम् | गुरुपूजां विना देवि नहि सिध्यति भूतले || ४१ || गुरुपूजां विना देवि इष्टपूजां करोति यः | मन्त्रस्य तस्य तेजांसि हरते भैरवः स्वयम् || ४२ || देवतागुरुमन्त्राणामैक्यं सम्भावयन् धिया | तदा सिद्धो भवेन्मन्त्रः प्रकटे हानिरेव च || ४३ || श्रीपार्वती उवाच ऐक्यज्ञानं महादेव कथमुत्पद्यते प्रभो | नराकृतिगुरुर्मन्त्रे देवता ध्यानरूपिणी || मन्त्राश्चाक्षररूपेण कथमैक्यं भवेच्छिव || ४४ || श्रीशिव उवाच धन्यासि प्राणतुल्यासि पतिभक्तासि पार्वति | एकजातिस्वरूपेण स्वभावादेकजन्मतः || ४५ || एतेषां भावयोगे तु एकसाधनमेव हि | गुरोर्जातश्च मन्त्रश्च मन्त्रा जाता तु सुन्दरि || ४६ || अत एव वरारोहे देवतायाः पितामहः | पितुश्च भावनाद् देवि तथा चैव पितुः पितुः || ४७ || तदुद्भवं तोषमेति विपरीते विपर्ययः | गुरुः कर्ता गुरुर्हर्ता गुरुः पाता महीतले || ४८ || गुरोः सन्तोषमात्रेण तुष्टाः स्युः सर्वदेवताः | गुरौ तुष्ते शिवस्तुष्टो रुष्टे रुष्टस्त्रिलोचनः || ४९ || गुरौ तुष्टे शिवा तुष्टा रुष्टे रुष्टा च सुन्दरी | अतो गुरुर्महेशानि संसारार्णवलङ्घने || ५० || कर्ता पाता च हर्ता च गुरुर्मोक्षप्रदायकः | जीवः शिवः शिवो देवः सजीवः केवलः शिवः || ५१ || पाशबद्धो भवेज्जीवः पाशमुक्तः सदाशिवः | प्रणम्य गुरुपादाब्जं ध्यात्वा च गुरुपादुकाम् || ५२ || ज्ञात्वा परमतत्त्वं वै यो भजेत् कुलचण्डिकाम् | स कृतार्थः स धन्यश्च स कृतज्ञः स पण्डितः || ५३ || स्वभावज्ञो महादेवि जायते नात्र संशयः | ध्यातः स्मृतः पूजितो वा नमितो वापि यत्नतः || ५४ || ज्ञानतोऽज्ञानतो वापि पूजाकालं विमुक्तिदः | चिन्मयस्याद्वितीयस्य निष्कलस्याशरीरिणः || ५५ || उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना | सर्वदेवमयीं देवीं सर्वदेवमयीं पराम् || ५६ || अज्ञानां चिन्तयेद् देवीं परंब्रह्मस्वरूपिणीम् | नित्या च निष्कलङ्का च निराधारा निराश्रया || ५७ || सर्वधारा निराधारा विजया च जयावहा | सगुणा निर्गुणा चेति महामाया द्विधा मता || ५८ || सगुणा मायया युक्ता तया हीना च निर्गुणा | सगुणा च यदा देवी सगुणोऽयं सदाशिवः || ५९ || निर्गुणा त्वं महामाये निर्गुणोऽहं न संशयः | त्वमेव निर्गुणो शक्तिरहमेव च निर्गुणः || ६० || यो भजेत् सगुणो देवि चाचिरात् सोऽपि निर्गुणः | गुणातीतं परं ब्रह्म निरीहं वर्णवर्जितम् || ६१ || तदेव परमा विद्या काल्यादिसगुणान्विता | साधकस्य हितार्थाय शाक्तस्यानुग्रहाय च || उत्थिता परमा विद्या सगुणा नात्र संशयः || ६२ || || इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे प्रथमः पटलः || १ || अथ द्वितीयः पटलः एकदा पार्वती देवी करालवदना शिवा | पप्रच्छ पार्वति देवी हसन्ती कालिका परा || १ || श्रीपार्वती उवाच महादेव महेशान महेश्वर सदाशिव | पृच्छाम्येकं महाभाग कृपया कथय प्रभो || २ || विना व्यानं कुम्भकं च प्राणायामं च कुल्लुकाम् | जपं तपो धारणं च सेतुं चैव विना करम् || ३ || विना हंसं विना पिण्डं विना भावं विना पदम् | कथं वा जायते सिद्धिर्वद नाथ जगद्गुरो || ४ || श्रीशिव उवाच ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरेव च जातिभिः | वामराशिप्रभावेण कर्तव्यं जपपूजनम् || ५ || ये शाक्ता ब्राह्मणा देवि क्षत्रिया ब्राह्मणाः स्मृताः | वैश्याश्च ब्राह्मणाश्चण्डि सर्वे शूद्राश्च ब्राह्मणाः || ६ || ब्राह्मणाः शङ्कराश्चण्डि त्रिनेत्रश्चन्द्रशेखरः | रक्तपुष्पैर्जगद्धात्रीं पूजयेद्धरवल्लभाम् || ७ || वज्रपुष्पेण देवेशि देवीं त्रिभुवनेश्वरीम् | पूजयेद् भक्तिभावेन दुर्गां मोक्षविधायिनीम् || ८ || हरसम्पर्कहीनाया लतायाः काममन्दिरे | जातं कुसुममादाय महादेव्यै निवेदयेत् || ९ || स्वयम्भुकुसुमं देवि रक्तचन्दनसंज्ञकम् | यथा त्रिशूलपुष्पं च वज्रपुष्पं वरानने || १० || अनुकल्पं लोहिताग्रं चन्दनं हरवल्लभम् | कदाचित् कस्य मुक्तिः स्यात् कदाचिद् भुक्तिरेव च || ११ || एतस्याः साधकस्याथ भुक्तिर्मुक्तिः करे स्थिता | योगी चेन्नहि भोगी स्याद् भोगी चेन्नहि योगवान् || १२ || योगभोगात्मकं कौलं तस्मात् कौलं समभ्यसेत् | नहि योगी न वा भोगी न योगी योगवानिति || १३ || योगी भोगी न वा भोगी भवेद् भोगी न संशयः | शिवभक्तिं विना देवि यो धावति च मूढधीः || १४ || न योगी स्यान्न भोगी स्यात् कल्पकोटिशतैरपि | रुद्रस्य चिन्तनाद् रुद्रो विष्णुः स्याद् विष्णुचिन्तनात् || १५ || दुर्गायाश्चिन्तनाद् दुर्गा भवत्येव न संशयः | यथा शिवस्तथा दुर्गा या दुर्गा शिव एव सा || १६ || तत्र यः कुरुते भेदं स एव मूढधीर्नरः | देवि विष्णुशिवादीनामेकत्वं परिचिन्तयेत् || १७ || भेदकृन्नरकं याति रौरवं पापपूरुषः | नहि दुर्गासमा पूजा नहि दुर्गासमं फलम् || १८ || नहि दुर्गासमं ज्ञानं नहि दुर्गासमं तपः | दुर्गायाश्चरितं यत्र तत्र कैलासमन्दिरम् || १९ || इदं सत्यमिदं सत्यमिदं सत्यं वरानने | स्वर्गे मर्त्ये च पाताले नास्ति शाक्तात् परःप्रियः || २० || सौराणां गाणपत्यानां वैष्णवानां तथैव च | ततोऽन्ते चैव शाक्तानां क्रमशः क्रमशः प्रिये || २१ || शृणु देवि वरारोहे नास्ति शाक्तात् परो जनः | शाक्तोऽपि शङ्करः साक्षात् परंब्रह्मस्वरूपभाक् || २२ || आराधिता येन काली तार त्रिपुरसुन्दरी | षोडशी चैव मातङ्गी छिन्ना च बगलामुखी || २३ || आराधिता महेशानि स शिवो नात्र संशयः | अतिगोप्यं वरारोहे शाक्तानां परमं पदम् || २४ || यो जानाति महीमध्ये स शिवो नात्र संशयः | ब्रह्माद्यर्चितपादाब्जं यो भजेत् सततं मुदा || २५ || स यात्यचिरकालेन मुक्तिमन्दिरमेव हि | एका विद्या च प्रकृतिरेकस्तु पुरुषः शिवः || २६ || एकोऽहं वैष्णवत्वं च एकमेव प्रभाषते | एवं च मनसा दुर्गां यो भजेद्धरवल्लभाम् || २७ || पूजयेद् यन्त्रपुष्पैष्तु साधको भुवि मण्डले | काककञ्चुं विधायैवं प्राणायामं विशुद्धिदम् || २८ || कुम्भकं मातृकान्यासं प्राणायामं पुनः पुनः | प्राणायामत्रयं भद्रे अधमोत्तममध्यमम् || २९ || अधमाद् जायते स्वेदो मध्यमाद् गात्रचालनम् | उत्तमाच्च क्षितित्यागो जायते नात्र संशयः || ३० || प्राणोऽपानः समानश्चोदानव्यानौ च वायवः | नागः कूर्मोऽथ कृकरो देवदत्तो धनञ्जयः || ३१ || प्राणायामेन सर्वेषां विश्रामो जायते भृशम् | जवापुष्पैर्द्रोणपुष्पैः करवीरैर्मनोहरैः || ३२ || कृष्णापराजितापुष्पैर्वज्रैश्च मुनिपुष्पकैः | पूजयेत् परया भक्त्या चण्डिकां परमेश्वरीम् || ३३ || कालीं करालवदनां मुण्डमालाविभूषिताम् | प्रणमेद् भक्तिभावेन पूजयेद्धरवल्लभाम् || ३४ || हिमदिग्विहितो जन्तुः सर्वालङ्कारभूषितः | रक्ताम्बरपरीधानो रक्तामाल्यानुलेपनः || ३५ || क्रमेणैबं महेशानि सोऽहमित्येव चिन्तयन् | एवमीशासने दुर्गां स्थित्वा च साधकोत्तमः || ३६ || श्मशानं शवमारुह्य मध्यस्थो नरसाधकः | जपत्वा महामनुं गुह्यं वसेत् कैलासमन्दिरे || ३७ || शिवोऽहं च शिवेयं च सदा वै मध्यभावना | आद्या माद्यां समास्थाय ध्यायेत् कुण्डलिनीं मुदा || ३८ || कदाचित् तारिणीं विद्यां दुर्गां तारकतारिणीम् | पूजयेत् क्रियया शक्त्या ब्रह्मविद्यां मनोरमाम् || ३९ || सहस्रारे महादेवं नीलकण्ठं सदाशिवम् | ब्रह्मादिगोप्यं देवेशं ध्यायेत् शक्तिसमन्वितम् || ४० || इदं च दुर्लभं तन्त्रं मन्त्रं यन्त्रं महीतले | वाक्यं परमनिर्वाणं दाम्भिके पशुसङ्कटे || ४१ || गोप्तव्यं वै वरारोहे स्वयोनिरिव पार्वति | दिवा रात्रौ महाभागे प्रजपेत् परमं मनुम् || ४२ || जप्त्वा भवेन्महाज्ञानी गाणपत्यं लभेत् तु सः | अहमेव शिवं ब्रह्म शिवोऽहं भैरवो ह्यहम् || ४३ || भैरवोऽहं भैरवोऽहं रमणी मम भैरवी | मनसा ज्ञानमासाद्य साधकेन्द्रो भवेद् भुवि || ४४ || एवं ज्ञानं परं नित्यं निर्विकारं मनोरमम् | प्राप्यैवं सर्वदा जीवो विहरेत् क्षितिमण्डले || ४५ || पाद्यार्घ्याचमनीयाद्यैः पूजयेत् परमेश्वरीम् | सदानन्दः स विज्ञेयः सर्वधर्मार्थसाधकः || ४६ || भक्त्या च क्रियया चण्डि प्रणमेद् यस्तु कालिकाम् | जीवः शिवत्वं लभते सत्यं सत्यं न संशयः || ४७ || क्व यमः क्व तपो विष्णुः क्व कलिः कर्महिंसकः | सर्वं च मानसं क्लेशं सदा सत्यं विभावयेत् || ४८ || एवं विधानमासाद्य प्रजपेत् भावयेत् सुधीः | सोऽचिरेणैव कालेन शिवत्वं लभते जनः || ४९ || सदा क्रिया प्रकर्तव्या क्रियया सिद्धिमुत्तमाम् | प्राप्नोति सर्वदा शुद्धिमत एवं न वा त्यजेत् || ५० || श्मशानसिद्धिर्वैराग्यं शवसिद्धिर्वरानने | दुर्गानुग्रहमात्रेण भविष्यति न संशयः || ५१ || दिव्यस्तु देववत् प्रायो वीरश्चोद्धतमानसः | पशुभावस्तथा देवि शुद्धश्च धरणीतले || ५२ || श्रुत्वा हसन्ती काली सा करालकमला कला | दिगम्बरा दिव्यदेहा प्राह देवं त्रिलोचनम् || ५३ || गोप्यं यत् कथितं नाथ श्रुतं परममादरात् | अतिगोप्यं रहस्यं च श्रोतुमिच्छाम्यहं पुनः || ५४ || दिव्यं च दुर्लभं नाथ वीरो जातिविहिंसकः | पशौ नाधिष्ठिता दुरा वीरतन्त्रे पुरा श्रुतम् || इदानीं श्रोतुमिच्छामि ब्रह्मवाक्यं सदाशिवम् || ५५ || श्रीशिव उवाच श्रुतं भैरवतन्त्रं च योनितन्त्रं कुलार्णवम् | कुलाचारं तथा गुप्तसाधनं गुरुतन्त्रकम् || ५६ || निर्वाणं समयाचारं वीरतन्त्रं श्रुतं पुरा | डामरं डमरं डीनं श्रुतं कालीविलासकम् || ५७ || सप्तकोटिमहाग्रन्था मम वक्त्राद् विनिर्गताः | यामलं देवि ब्रह्मोद्यं यामलं विष्णुयामलम् || ५८ || शिवयामलकं देवि यामलं मित्रयामलम् | शक्तियामलकं दुर्गे कथितं च श्रुतं त्वया || ५९ || तथापि हृदयग्रन्थिरस्ति ते परमेश्वरि | पुरा सुकथितं तन्त्रं पुरा देवि त्वया श्रुतम् || ६० || सङ्केतं समयाचारं तन्त्रं सङ्केतकं तथा | कुलसङ्केतकं नाम सङ्केतं बहुविस्तरम् || ६१ || श्मशानसाधनं भद्रे शवसाधनमेव च | एतत् ते कथितं देवि नानाभावं पृथग्विधम् || ६२ || किन्त्वेकं शृणु चार्वङ्गि कथयामि समासतः | मत्स्यं मांसं च मद्यं च मुद्रा मैथुनमेव च || ६३ || दिव्यानां चैव वीराणां साधनं भावसाधनम् | न मद्यं प्रपिबेद् विप्रो न मुद्रां भक्षयेद् सदा || ६४ || न मैथुनमगम्यासु कर्तव्यं सिद्धिनाशनम् | अवधूतः शिवः साक्षादवधूतः सदाशिवः || ६५ || अवधूती शिवा देवी अवधूताश्रमो महान् | अवधूतश्च द्विविधो गृहस्थश्च हितानुगः || ६६ || सचेलश्चापि दिग्वासो विधियोनिविहारवान् | सदारः सर्वदावस्थो ह्यर्द्धहासो दिगम्बरः || ६७ || गृहावधूतो देवेशि द्वितीयस्तु सदाशिवः | न कलौ साधनं मद्यं प्रत्यक्षं वरवर्णिनि || ६८ || गृहावधूतः सर्वत्र कर्तव्यं च दिगम्बरि | अत एव वरारोहे मिश्राचारं प्रकल्पयेत् || ६९ || एवमाचारमिश्रेण पूजयेद् यस्तु कालिकाम् | सन्तुष्टा सा जगद्धात्री मोक्षमार्गविधायिनी || ७० || स्वकरस्थश्च भोगश्च स्वकरस्थश्च मोक्षकः | देवीमन्त्रप्रसादेन किं न सिध्यति भूतले || ७१ || सुराणां चाऽसुराणां च किन्नराणां च पार्वति | शरण्यं तारिणीपादपद्मं मोक्षप्रदायकम् || ७२ || जवापराजिताद्रोणकरवीरैः सितेतरैः | गन्धैर्मालूरपत्रैश्च नैवेद्यैर्विविधैरपि || ७३ || एवं विधिर्विधातव्यः क्रियासिद्धिकरात्मकः | तदैव जायते सिद्धो जीवन्मुक्तः सदाशिवः || ७४ || नारिकेलोदकं चार्द्रं जलं सर्वार्थसाधनम् | कांस्ये गुडे सव्यकरे कृत्वा कारणकल्पनम् || ७५ || तदा पूजा विधातव्या मद्येन नगनन्दिनि | ब्राह्मणी क्षत्रिया वैश्या शूद्राणी सर्वमङ्गला || ७६ || शुक्लं रक्तं तथा पीतं कृष्णं च भद्रमीरितम् | शुक्लपुष्पं ब्राह्मणे तु रक्तपुष्पं च क्षत्रीये || ७७ || वैश्ये च पीतपुष्पं च शूद्रे कृष्णं तदीरितम् | संविदासुरयोर्मध्ये संविदैव गरीयसी || ७८ || अनुकल्पानि चान्यानि न दद्यात् केवलां सुराम् | संविदापानमात्रेण स वीरः स च मद्यपः || ७९ || वाग्जालशास्त्रे कथितं निषिद्धं नगनन्दिनि | न ग्राह्यं तस्य वाक्यं च ग्राह्यं तन्त्रात्मकं वचः || ८० || शिवा कर्त्री शिवा हर्त्री शिवा शिवविधायिनी | शिवेयं रमणी देवी शिवोऽहं शिवकामिनी || ८१ || सदाशिवशिवराध्या शिवानन्दविधायिनी | वामानन्दः शिवानन्दो भवेद् भवसमो जनः || त्रयाणां भावतत्त्वज्ञो भवयेवं वरानने || ८२ || || इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे द्वितीयः पटलः || अथ तृतीयः पटलः कैलासशिखरासीनमिन्दुखण्डविभूषितम् | पार्वती परया भक्त्या प्राह देवं त्रिलोचनम् || श्रोतुमिच्छाम्यहं नाथ तन्त्रान् बहु परिप्लुतान् || १ || श्रीपर्वती उवाच देवदेव महादेव संसारार्णवतारक | नमस्ते देव देवेश नीलकण्ठ त्रिलोचन || २ || नमस्ते पार्वतीनाथ दशविद्यापते नमः | गङ्गाधर जगत्स्वामिन् प्रभो शङ्कर भो हर || ३ || निःशेषजगदाधार निराधार निरीहक | निर्बीज निर्गुणाभाष सगुणान्तकर प्रभो || ४ || नमस्ते विजयाधार विजयेश जयात्मक | विजयानन्द सन्तोष विजयाप्राणवल्लभ || ५ || जगदीश जगद्बन्द्य जयेश जगदीश्वर | विश्वनाथ प्रसीद त्वं प्रसन्नो भव शङ्कर || ६ || श्रीशिव उवाच सप्तकोटिमहाविद्या उपविद्या तथैव च | श्रीविष्णोः कोटिमन्त्रेषु कोटिमन्त्रे शिवस्य च || ७ || शूद्राणामधिकारोऽस्ति स्वाहाप्रणववर्जिते | सर्वेषां दुर्लभो मार्गो दुर्गामार्गो महेश्वरि || ८ || भक्तानां खलु शाक्तानां सुलभात् सुलभः प्रिये | नातः परतरो देवो नातः परतरं सुखम् || ९ || नातः परतरा विद्या नातः परतरं पदम् | शृणु देवि वरारोहे परात् परं प्रिये || १० || केवलं दक्षिणं सव्यमाश्रित्य यदि साधकः | भावयेत् परमां विद्यामुमेशो नात्र संशयः || ११ || शृणु चण्डि वरारोहे करालास्ये दिगम्बरे | स्तौति त्वां सततं भक्त्या नमस्ते जगदम्बिके || १२ || श्रीशिव उवाच घोरदंष्ट्रे करालास्ये सुरामांसबलिप्रिये | चण्डमुण्डक्षयकरे मुण्डमालाविभूषिते || १३ || नमस्तेऽस्तु महामाये दुर्गे महिषवाहिनि | नमस्ते जगदीशानदयिते सर्वमङ्गले || १४ || वक्ष्ये परमतत्त्वं वै सारात् सारं परात् परम् | शृणु देवि जगद्धात्रि सावधानाऽवधारय || १५ || योनिमुद्राप्रकरणं पूर्वं च गदितं मया | त्रिकोणं गुणसंयुक्तं योनिं परमकारणम् || १६ || संगच्छेत् तु शिवाबुद्ध्या शिवरूपी न संशयः | तुषेण बद्धो व्रीहिः स्यात् तुषाभावे तु तण्डुलः || १७ || कर्मबद्धो भवेज्जीवः कर्ममुक्तः सदाशिवः | जीवानां परमो रोगः कर्मभोगः सुदारुणः || १८ || तस्मात् तारां जगद्धात्रीं पूजयेद् भक्तिभावतः | जटा - भस्म - व्याघ्रचर्मधारी परमपावनः || १९ || निरन्तरं जपेद् यस्तु साधकेन्द्रो धरातले | स धन्यः स कविर्वीरो दिव्यस्तु परमः पशुः || २० || भावशुद्धिर्ज्ञानशुद्धिः परशुद्धिस्तु सङ्गता | चिताशुद्धिः पीठशुद्धिर्ध्यानशुद्धिस्तु सच्छिवा || २१ || ज्ञात्वा परमतत्त्वं वै ज्ञानं मोक्षैकसाधनम् | भवेत् तु परया बुद्ध्या जीवः शिवत्वमालभेत् || २२ || विहारं जगदम्बायाः सहस्रारे मनोरमम् | सदाशिवेन संयोगं यः करोति स पण्डितः || २३ || ज्ञानिनां च मतं वक्ष्ये ज्ञानिनां च मतं मुदा | ज्ञानाऽज्ञानसमायुक्तः सर्वदा विहरेद् भुवि || २४ || इडा वामे स्थिता नाडी विधुस्तत्रापि तिष्ठति | दक्षेऽपि पिङ्गला नाडी सूर्यस्तत्रापि तिष्ठति || २५ || मध्ये सुषुम्ना तन्मध्ये ब्रह्मनाडी मनोहरा | मध्यमं खं विदध्याद् यो जनो मृत्युञ्जयो भवेत् || २६ || चित्रिणीमध्यगं वायुं पूरणं रेचनं यदा | करोति वामनासाग्रैरपि सत्यं सुरेश्वरि || २७ || दक्षे तु दक्षिणा वामा विरामा चाऽसितासिता | नाडी वामे कपाला च विजिह्वा शूलकारिणी || २८ || कङ्काला निष्कलङ्का च सव्यदक्षिणतः क्रमात् | भित्वा च क्रमशश्चक्रं योगिन्द्रैरप्यलभ्यगम् || २९ || नभोमध्यगतं चक्रं सहस्राब्जं मनोरमम् | कालीपुरं तत्र रम्यं सर्ववर्णात्मकं प्रिये || ३० || विधाय चैनां मनसा बुद्ध्या कायेन चण्डिकाम् | तत्रैव ध्यानमासाद्य प्रकरोति जपार्चनम् || ३१ || यदि ध्यानं वरारोहे करोति सततं मुदा | तदैव जायते सिद्धिर्मुक्तिरव्यभिचारिणी || ३२ || न च ध्यानं न वा पूजा न स्तुतिः परमार्थिका | पूजयेत् तां जगद्धात्रीं कुसुमैर्मानसोद्भवैः || ३४ || कामरूपे द्विजागारे श्वपचस्य गृहेऽथवा | गङ्गाद्वारे प्रयागे च या मुक्तिः पावनी मुखे || ३५ || यत्र कुत्र मृतो ज्ञानी तत्रैव मोक्षमाप्नुयात् | दुर्गास्मरणजं पुण्यं दुर्गास्मरणजं फलम् || ३६ || दुर्गायाः स्मरणेनैव किं न सिध्यति भूतले | शैवो वा वैष्णवो वापि शाक्तो वा गिरिनन्दिनि || ३७ || भजेद् दुर्गा स्मरेद्दुर्गां जयेद् दुर्गां शिवप्रियाम् | तत्क्षणाद् देवदेवेशि मुच्यते भवबन्धनात् || ३८ || क्षीरोद्धृतं यद्व * * * तत्र क्षिप्तं न पूर्ववत् | पृथक् त्वया गुणेभ्यः स्यात् तद्वदात्मा इहोच्यते || ३९ || क्षीरेण सहितं तोयं क्षीरमेव यथा भवेत् | अविशेषो भवेत् तद्वद् जीवात्मपरमात्मनोः || ४० || यथा चन्द्रार्कयोर्बिम्बो जलपूर्णघटेषु च | घटे भग्ने जलेष्वेव प्रलीनौ चन्द्रसूर्यकौ || ४१ || न जायते न म्रियते आत्मा तु परमः शिवः | आत्मज्ञानं समासाद्य संसारार्णवलङ्घने || ४२ || तरत्येवं सदा चण्डि जीवः शिवत्वमालभेत् | पार्वतीचरणद्वन्द्वभजनात् किन्नरो भवेत् || ४३ || स्वर्गो भोगश्च मोक्षश्च शाक्तानां न भवेत् किमु | शाक्तानां चैव निन्दा वै ये कुर्वन्ति नराधमाः || ४४ || तेषां लोहितपानं वै कुर्वन्ति भैरवा गणाः | भैरवाश्चैव भैरव्यः सदा हिंसन्ति पामरान् || ४५ || तेषां क्षतजपानं वै कुर्वन्ति बहुरक्तपाः | शाक्तान् हिंसन्ति गर्जन्ति निन्दति बहुजल्पकाः || ४६ || भिनत्ति तेषां देवेशि शिरांसि शिववल्लभा | शाक्तानामुत्तमो नास्ति स्वर्गे मर्त्ये रसातले || ४७ || शाक्तस्तु शङ्करो ज्ञेयस्त्रिनेत्रश्चन्द्रशेखरः | स्वयं गङ्गाधरो भूत्वा विहरेत् क्षितिमण्डले || ४८ || नास्ति तन्त्रसमं शास्त्रं न भक्तः केशवात् परः | न योगी शङ्करो ज्ञानी न दुर्गा देवता परा || ४९ || दक्षिणांशे यद्विक्षीणा उरो बाह्यमधः क्षिपेत् | गतिर्मृत्युः पलाङ्कोऽर्द्धं खेदयुक्ता च मुक्तिदा || ५० || दुर्गाया मन्त्रनिकरं नानातन्त्रे त्वया श्रुतम् | नानामन्त्रं न कुत्रापि कथितं न श्रूतं त्वया || ५१ || दुर्गा दुर्गेति दुर्गेति दुर्गानाम परं मनुम् | यो भजेत् सततं चण्डि जीवन्मुक्तः स मानवः || ५२ || महोत्पाते महाघोरे महाविपदि सङ्कटे | महादुःखे महाशोके महाभयसमुत्थिते || ५३ || यः सदा संस्मरेद् दुर्गां यो जपेत् परमं मनुम् | स जीवलोके देवेशि नीलकण्ठत्वमाप्नुयात् || ५४ || जीवः शिवः शिवा वामाऽभिरामा शिवनन्दिनि | एवं भावं समाश्रित्य क्रियाभक्तिसमन्वितः || ५५ || भवत्येवं क्व वा दुःखं क्व भयं नरकं क्व वा | क्व कलिश्च क्व कालश्च सर्वं सत्यमयं वपुः || ५६ || काल्याश्चैव हि तारायास्त्रिपुरायाश्च सुन्दरि | भैरव्या भुवनायाश्च चरितं मुक्तिदायकम् || ५७ || मुक्तिशययां ज्ञानमयीं सदा सन्तोषकारिणीम् | येनैव भावमासाद्य गच्छेद् दुःखविनाशिनीम् || ५८ || जपनं पार्वतीदेव्याः पूजनं पार्वतीपदम् | शरणं पार्वतीदेव्याश्चरणं भवनाशनम् || ५९ || कालस्य यन्त्रणात् काली करालारिविमर्दनात् | तस्मात् पदाङ्घ्रिभजनाद् देवीपुत्रो भवेद् ध्रुवम् || ६० || पुरा निगदितं चण्डि नानाचारं पृथग्विधम् | इदानीं यागवृत्तान्तं मनसः शृणु शङ्करि || ६१ || हृत्पद्मे भावयेद् दुर्गां देवीं दुर्गतिनाशिनीम् | करालां घोरदंष्ट्रां च मुण्डमालाविभूषिताम् || ६२ || शवारूढां श्मशानस्थां तारिणीं च दिगम्बराम् | अर्द्धहासां ललज्जिह्वां मेघश्यामां वरप्रदाम् || ६३ || भवानीं यः स्मरेन्नित्यमन्ते स पार्वतीपतिः | सहस्रारे स्थितं लिङ्गं तप्तचामीकरप्रभम् || ६४ || कदा शुक्लं कदा कृष्णं पीतं नीलं कदा कदा | कदा वर्णमयं लिङ्गं स्वरादिपरिभूषितम् || ६५ || पद्ममध्यस्थितं लिङ्गं ज्योतिर्मयमचिन्तकम् | जीवादिभूषितं लिङ्गं कर्णिकोपरि संस्थितम् || ६६ || सदाशिवं ततो भक्त्या प्रणमेद् भक्तिसंयुतः | तदा सिद्धिमवाप्नोति नान्यथा कल्पकोटिभिः || किं बहूक्त्या महेशानि गुरुभक्त्या च सिध्यति || ६७ || || इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे तृतीयः पटलः || ३ || अथ चतुर्थः पटलः देवी उवाच पृच्छाम्येकं महाभाग योगेन्द्र भक्तवत्सल | पृच्छामि परमं तत्त्वं देवदेव सदाशिव || १ || श्रीशिव उवाच कथयिष्ये जगद्धात्रि दुर्गायाश्चरितं शृणु | एका दुर्गा जगद्धात्री एको हि परमः शिवः || २ || मदंशाश्चैव ये भूतास्ते शैवा नात्र संशयः | त्वदंशाश्चैव शाक्ताश्च सत्यं वै गिरिनन्दिनि || ३ || बहुवर्षसहस्रान्ते शैवाः शक्तिपरायणाः | शाक्ताश्च शाङ्करा देवि यस्य कस्य कुलोद्भवाः || ४ || चाण्डाला ब्राह्मणाः शूद्राः क्षत्रिया वैश्यसम्भवाः | एते शाक्ता जगद्धात्रि न मानुष्याः कदाचन || ५ || पश्यन्ति मानुषान् लोके केवलं चर्मचक्षुषा | श्रद्धयाऽश्रद्धया वापि यः कश्चिन्मानवः स्मरेत् || ६ || दुर्गां दुर्गशतोत्तीर्य स याति परमां गतिम् | यथेन्द्रश्च कुबेरश्च वरुणः साधको यथा || ७ || तथा च साधको लोके दुर्गाभक्तिपरायणः | अभक्त्यापि च भक्त्या वा यः स्मरेद् रुद्रगेहिनीम् || ८ || सुखं भुक्त्वेह लोके तु स यास्यति शिवालयम् | इहैव स्वर्गं नरकं मोक्षं वा गिरिनन्दिनि || ९ || इह लोके तु वासः स्यात् सर्वशक्तिमयं जगत् | दुर्गायाः शतनामानि शृणु त्वं भवगेहिनि || १० || दुर्गा भवानी देवेशी विश्वनाथप्रिया शिवा | घोरदंष्ट्रा करालास्या मुण्डमालाविभूषिता || ११ || रुद्राणी तारिणी तारा माहेशी भववल्लभा | नारायणी जगद्धात्री महादेवप्रिया जया || १२ || विजया च जयाराध्या शर्वाणी हरवल्लभा | असिता चाणिमा देवी लघिमा गरिमा तथा || १३ || महेशशक्तिर्विश्वेशी गौरी पर्वतनन्दिनी | नित्या च निष्कलङ्का च निरीहा नित्यनूतना || १४ || रक्ता रक्तमुखी वाणी वसुयुक्ता वसुप्रदा | रामप्रिया रामरता रघुनाथवरप्रदा || १५ || बाह्येश्वरी बाह्यरता कृष्णा कृष्णवरप्रदा | यशोदा राधिका चण्डी द्रौपदी रुक्मिणी तथा || १६ || गुहप्रिया गुहरता गुहवंशविलालिनी | गणेशजननी माता विश्वरूपा च जाह्नवी || १७ || गङ्गा काली च काशी च भैरवी भुवनेश्वरी | निर्मला च सुगन्धा च देवकी देवपूजिता || १८ || दक्षजा दक्षिणा दक्षा दक्षयज्ञविनाशिनी | सुशीला सुन्दरी सौम्या मातङ्गी कमलात्मिका || १९ || निशुम्भनाशिनी शुम्भनाशिनी चण्डनाशिनी | धूम्रलोचनसंहर्त्रीं महिषासुरमर्दिनी || २० || उमा गौरी कराला च कामिनी विश्वमोहनी | जगदीशप्रिया जन्मनाशिनी भवनाशिनी || २१ || घोरवक्त्रा ललज्जिह्वा अट्टहासा दिगम्बरा | भारती स्वर्गता देवि भोगदा मोक्षदायिनी || २२ || इत्येवं शतनामानि कथितानि वरानने | नामस्मरणमात्रेण जीवन्मुक्तो न संशयः || २३ || यः पठेत् प्रातरुत्थाय स्मृत्वा दुर्गापदद्वयम् | मुच्यते जन्मबन्धेभ्यो नात्र कार्या विचारणा || २४ || सिद्धिकाले दिवाभागे निशायां वा निशामुखे | पठित्वा शतनामानि मन्त्रसिद्धिं लभेद् ध्रुवम् || २५ || अज्ञात्वा स्तवराजं तु दशविद्यां लभेद् यदि | तथा नैव च सिद्धिः स्यात् सत्यं सत्यं महेश्वरि || २६ || कामरूपे कामभागे कामिनीकाममन्दिरे | कामिनीवल्लभो भूत्वा विहरेत् क्षितिमण्डले || २७ || वामभागे तु रमणीं संस्थाप्य वरवर्णिनि | ताम्बूलपूरितमुखः सर्वदा तारिणीं भजेत् || २८ || महानिशाभागमध्ये वामे तु वामलोचनाम् | कृत्वा जपति तन्मन्त्रं सिद्धिदं सर्वदेहिनाम् || २९ || विलोक्य मुखपद्मं च वामाया रमणीमुखः | प्रकरोत्यट्टहासं च ततो दुर्गा प्रसीदति || ३० || परं ब्रह्म परं धाम परमानन्दकारकम् | नित्यानन्दं निर्विकारं निरीहं तारिणीपदम् || ३१ || ध्यात्वा मोक्षमवाप्नोति सत्यं परमसुन्दरि | यथा दुर्गा तथा वामा यथा वामा तथा शिवा || ३२ || शिवभक्तिमयो भूत्वा विहरेत् सर्वदा शुचिः | विना कालीपदद्वन्द्वं कः शाक्तो धरणीतले || ३३ || शक्तिहीनः शवः साक्षात् शक्तियुक्तः सदाशिवः | शक्तियुक्तो भवेद् विष्णुरथवा विष्णुरेव हि || ३४ || राजमार्गं शक्तिमार्गं जानीहि जगदम्बिके | अन्यपूजा न कर्तव्या न स्तुतिर्न च भावना || ३५ || न च ध्यानं योगसिद्धिर्नान्यमन्त्रं विचक्षणैः | केवलं कालिकापादपद्मं भवविघट्टनम् || ३६ || नान्यो देवो न वा तीर्थं न ध्यानं न च जल्पना | न तीर्थभ्रमणं चण्डि न वात्र योगधारणा || ३७ || स्तुतिर्दुर्गा मतिर्दुर्गा स्थितिर्दुर्गा सदाशिवः | क्षुधा निद्रा दयाभ्रान्तिः क्षान्तिर्दुर्गा यतो गतिः || ३८ || शक्तिः शिवः शिवः शक्तिः शक्तिर्ब्रह्मा जनार्दनः | शक्तिः सूर्यश्च चन्द्रश्च कुबेरो वरुणश्च यः || ३९ || शक्तिरूपं जगत् सर्वं यो न वेत्ति स पातकी | एवं शक्तिमयं विश्वं यो वेद धरणीतले || ४० || स वेद धरणीमध्ये कालिकां जगदम्बिकाम् | स एव सर्वशास्त्रेषु कोविदः सर्ववल्लभः || ४१ || श्मशानसिद्धिं लभते नात्र कार्या विचारणा | शून्यागारं श्मशानं वा तुल्यं परमकोविदैः || ४२ || यो वा गच्छति तत्रैव स विश्वेशो भवेद् ध्रुवम् | निशाभागे चतुर्दश्याममायां हरवल्लभे || ४३ || जपेदयुतसंख्यं च स सिद्धः सर्वकर्मसु | स योगीन्द्रः स भावज्ञः स घीरः सर्वकर्मसु || ४४ || नित्यानदः स विज्ञेयः सर्वकार्यविशारदः | प्रभातेऽश्वत्थमूले तु गत्वा परमकोबिदः || ४५ || पूजयेत् परया भक्त्या सामिषैर्लोहितैरपि | बोल्वैर्बिल्वदलैर्वापि बिल्वपुष्पं वरानने || ४६ || जपेल्लक्षं चतुर्दश्यामारभ्य नगनन्दिनि | पञ्चमेन यजेद् देवीं बिल्वमूले दिवानिशम् || ४७ || तदा वाक्सिद्धिमाप्नोति क्षुद्रो वाचस्पतिर्भवेत् | आसनं द्वादशविधं सङ्केतासनमुत्तमम् || ४८ || भद्रपीठासनं पद्मासनं सिद्धासनं तथा | सिद्धसिद्धासनं देव्यासनं च कुक्कुटासनम् || ४९ || वीरासनं परं भद्रे चासनं वरदासनम् | सिंहासनं परं देवि श्मशानासनमुत्तमम् || ५० || शवासनं वरारोहे देवानामपि दुर्लभम् | यत्राश्रयेत् परं ब्रह्मासनं परमभूषितम् || ५१ || वामभागे स्त्रियं स्थाप्य धूमामोदसुगन्धिभिः | ताम्बूलचर्वणाद्यैश्च पूजयेद् भवगेहिनीम् || ५२ || भवानीं तारिणीं विद्यां ब्रह्मविद्यां मनोहराम् | स्तुत्वा मोक्षमवाप्नोति तत्क्षणादेव शाङ्करि || ५३ || विश्वमातर्जयाधारे विश्वेश्वरि नमोऽस्तु ते | करालवदने घोरे चन्द्रशेखरवल्लभे || ५४ || मां तारय महाभागे देहि सिद्धिमनुत्तमाम् | कामकल्पलतारूपे कामेश्वरि कलामते || ५५ || कामरूपे च विजये निस्तारे यशवाहिनी | गृहीत्वा शवचाण्डालं धृत्वा भालं मुखं शिरः || ५६ || नासां कर्णौ च हृत्पद्मं नाभिं लिङ्गं गुदं तथा | बाहू पृष्ठं च जठरं धृत्वा धृत्वा मुहुर्मुहुः || ५७ || आदौ मायां पुनर्मायां पुनर्मायां नियोजयेत् | वधूबीजं तथा लज्जा सर्वाङ्गे निक्षिपेन्मनुम् || ५८ || अष्टोत्तरमनुं जप्त्वा कृत्वा च वन्दनं शिवम् | पुनर्विहारबीजेन नीलद्रव्येण चक्षुषा || ५९ || तत्क्षणाद् देवदेवेशि जायते नात्र संशयः | शून्यागारे महेशानि भवेद् धनददिङ्मुखः || ६० || शङ्खमाला गृहीतव्या स्फाटिकी वाऽथ राजती | चामीकरमयी माला प्रवालघटिताऽथवा || ६१ || मूर्ध्नि देशे कुल्लुकां च जप्त्वा शतमनुत्तमम् | तदा मन्त्रं जपेन्मन्त्री महेशो नात्र संशयः || ६२ || स शक्तः शिवभक्तश्च भैरवश्च सदाशिवः | कुलीनश्च कुलज्ञश्च यो जपेत् तारिणीमनुम् || ६३ || हृत्पद्मगां जगद्धात्रीं मूर्ध्निं संस्थां सुरेश्वरीम् | भुजङ्गिनीं जागरिणीं भुजगादिविभूषिताम् || ६४ || नारदाद्यैः साधकेन्द्रैः सेवितां सिद्धसेविताम् | अश्वत्थे बिल्वमूले वा स्वजायामन्दिरेऽथवा || ६५ || देवीं वा कामिनीं वापि ध्यायेत् परमदेवताम् | आद्यां ज्योतिर्मयीं विद्यामभयां वरदां शिवाम् || ६६ || प्रणमेत स्तुतिभिश्चण्डीं सर्वदोषनिकृन्तनीम् | श्मशानस्थः शिवस्थोऽपि पठेत् कवचमुत्तमम् || ६७ || तदा श्मशाने देवेशि शवे वा वरवर्णिनि | सिद्धिर्भविष्यति तदा परपक्षा न भैरवाः || ६८ || उन्मत्तः क्रोधनश्चैव भैरवो बटुकात्मकः | संहारो भीषणश्चैव तथा च कालभैरवः || ६९ || महाकालभैरवश्च एते वै वसुसङ्ख्यकाः | दृष्ट्वा श्मशानं देवेशि शवसाधनमेव च || ७० || नृत्यन्ति भैरवाः सर्वे गर्जन्ति रक्तलोचनाः | अद्य मत्सदृशो वापि अद्यैव वातुलोऽपि वा || ७१ || शवश्मशानयोर्मध्ये न जानामि कथञ्चन | मा भैषीर्भैरवाः सर्वे वदिष्यन्ति च बन्धनात् || ७२ || सिंहव्याघ्रवराहाद्याः के वा गर्जन्ति सर्वतः | मा भैषीश्चैव मा भैषीर्मा भैषीश्चैव साधक || ७३ || यो वा वदिष्यति पुरः स गुरुस्तत्त्वकोविदः | विना तन्त्रपरिज्ञानाद् विना गुरुनिषेवणात् || ७४ || प्राणायामाद् विना ध्यानाद् विना मन्त्रविचालनात् | विना ज्ञानाद् विना न्यासाद् विना शवविबन्धनात् || ७५ || विना भावाद् विना लाभाद् विना सत्सङ्गसेवनात् | विना जापाद् विना तापाद् विनापि काममन्दिरात् || ७६ || नहि सिध्यति देवेशि प्रत्यक्षं हरवल्लभा | यदि भाग्यवशाद् देवि प्रत्यक्षं हरवल्लभा || तदैव जायते सिद्धिर्महाविद्या प्रसीदति || ७७ || || इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे चतुर्थः पटलः || ४ || अथ पञ्चमः पटलः एकदा पार्वती देवी कैलासनिलयाश्रया | अट्टहासं प्रकुर्वन्ती प्राह गद्गदया गिरा || १ || श्रीपार्वती उवाच देवदेव महादेव विश्वनाथ सदाशिव | पृच्छामि जगदीशान मम मन्दिरघर्षणम् || २ || किंविधं वापि भो नाथ कस्मिन् काले महेश्वर | शिवशक्तिमयं ब्रह्म नित्यानन्दमयं वपुः || ३ || नवकन्यापूजनं च श्रुतं विश्वेश्वर प्रभो | कुमारीपूजनं देव श्रुतं तव प्रसादतः || ४ || श्रीशिव उवाच शृङ्गारं द्वादशविधं विपरीतं चतुर्विधम् | चतुर्विधं च शैवानां नवेषु च करेषु च || ५ || यो न जानाति विश्वेशि स पशुर्नात्र संशयः | पशोरग्रे न प्रकाश्यं न प्रकाश्यं कथञ्चन || ६ || पशुस्तु दारुणः शत्रुः सर्वभावविलोपकृत | कल्पकोटिशतेनापि वत्सरेणापि शाङ्करि || ७ || नहि सिध्यति विश्वेशि सत्यं सत्यं वदाम्यहम् | शृङ्गाररसलावण्यं यो न जानाति पण्डितः || ८ || स मूर्खः सर्वशास्त्रेषु शक्तिभ्रष्टो न संशयः | शृङ्गाररसलावण्ये शाक्तानन्दो यथा भवेत् || ९ || न शैवे वैष्णवे वापि सौरे वा गाणपत्यके | तथानन्दो महेशानि जायते न कथञ्चन || १० || शिवो जातिः शिवो गात्रं शिवो धर्मः शिवो रतिः | शिवः कर्ता शिवः पाता शिवो हर्ता शिवात्मकः || ११ || शिवो बुद्धिः शिवः शान्तिः शिवो गतिः शिवो मतिः | शिवः क्रिया शिवः शक्तिः शिवो मुक्तिः शिवात्मिका || १२ || शिवोऽहं नात्र सन्देहो जीवोऽहं शिव एव हि | इत्येवं यस्य मनसि वर्तते गिरिनन्दिनि || १३ || तदैव जायते सिद्धिर्मुक्तिरव्यभिचारिणी | शक्तिमार्गे वारारोहेऽवधूतः शङ्करः स्वयम् || १४ || अवधूती यस्य वामाऽवधूतस्तु स्वयं भवेत् | यत्र कुत्र निवासश्च कैलासो नात्र संशयः || १५ || मन्दिरं तस्य कैलासं स्तम्भं मणिमयं स्मृतम् | वृक्षाश्च पर्वताश्चैव क्षुद्राः सर्वप्रिये शिवे || १६ || क्षुद्राश्च बान्धवा रुद्राः सुप्रधानाः सदाशिवाः | भैरवाः किङ्कराः सर्वे भैरव्यश्चेटिकादिकाः || १७ || एवं कैलासभवनं सर्वानन्दकरं परम् | मनोहरं सुखमयं सर्वशान्तिमयं तथा || १८ || सर्वप्रियं गुणमयं सर्वसौख्यादिसम्भवम् | एवं सर्वमयं सौख्यं यो वै द्रक्ष्यति हे प्रिये || १९ || सर्वशक्तियुतो भूत्वा विहरेत् क्षितिमण्डले | कृष्णाष्टम्यां नवम्यां वा प्रजपेदयुतं निशि || २० || तदा सिद्धिमवाप्नोति मन्त्रकालपुरःसरः | एवं क्रिया प्रकर्तव्या गुप्ता गुप्ततरा स्मृता || २१ || गुप्ता गुप्तरा पूजा प्रकरात् सिद्धिनाशिनी | अन्तःशाक्ता बहिःशैवाः सभायां वैष्णवा मताः || २२ || नानारूपधराः कौला विचरन्ति महीतले | एवं विधानसम्भूतं श्रुतं तन्त्रं च मोहनम् || २३ || कुलज्ञानं कुलीनस्य योगिनीहृदयं श्रुतम् | सम्मोहनं वीरतन्त्रं श्रुतं श्रीतन्त्रमुत्तमम् || २४ || कुलार्णवस्तथा कालीतन्त्रं कालीविलासकम् | श्रीकालीकल्पलतिका श्रुता परममादरात् || २५ || मतभेदे च गुप्ता सा पूजा प्रकटनाशिनी | अन्तःशाक्ता बहिःशाक्ताः क्रियाशाक्ता वरानने || २६ || भक्तिशाक्ताः कामशाक्ता ध्यानशाक्ता महेश्वरि | रतिशाक्ताः शक्तिशाक्ताः सर्वकर्मसु नान्यथा || २७ || अन्तःशैवा बहिःशिवाः सभायां वा गृहेऽथवा | वैष्णवास्तादृशा एव सर्वकालेषु शङ्करि || २८ || इत्येवं परमो भावो गदितः सर्वयोनिषु | एवं भावं समाश्रित्य शाक्ताः परमपूजकाः || २९ || नित्यानन्दमयाः सर्वे त्रिनेत्राश्चन्द्रशेखराः | सदा शक्तिविहारं च सदानन्दपरिप्लुताः || ३० || सदानन्दः स विज्ञेयः सर्वकर्मसु कौशलः | कुलधर्मं समाश्रित्य ये वसन्ति महीतले || ३१ || ते शिवास्ते शिवा जीवा भवन्ति कुलधर्मतः | कुलीनः शङ्करो देव कुलीनस्तु हरिः स्वयम् || ३२ || कुलीनो वासवो देवः कुलीनस्तु पितामहः | कुलीना मुनयः सर्वे कुलीनाः पितरः स्मृताः || ३३ || किन्नराश्च कुलीनाश्च नराश्च पशुजीविनः | असुराश्च कुलीनाश्च कुलजा न कुलीनकाः || ३४ || अतो न भक्तिर्नो मुक्तिरसुराणां कदाचन | राक्षसाश्च कुलीनाश्च गन्धर्वाप्सरयक्षजाः || ३५ || देवीभक्तिं समास्थाय कृतार्थश्च महीतले | विना दुर्गापरिज्ञानाद् विफलं पूजनं जपः || ३६ || तपः क्रिया विशुद्धिः स्यादेतत् सर्वमनर्थकम् | मूर्खो वा पण्डितो वापि ब्राह्मणो वा वरानने || ३७ || क्षत्रियो वैश्यजः शूद्रश्चाण्डालो वरवर्णिनि | सर्वे तुल्याश्च शाक्ताश्च ह्येतत् सर्वार्थसाधकम् || ३८ || शृणु देवि वरारोहे मम वाक्यं सुनिश्चितम् | शृङ्गाररसलावण्यं कोविदः सर्वकर्मसु || ३९ || शृङ्गाराज्जायते सृष्टिः शृङ्गाराज्जायते रतिः | शृङ्गाराच्छङ्करस्तुष्टः शृङ्गारादपि पार्वति || ४० || सन्तुष्टा त्वं च सन्तुष्टो ह्यहमेव वरानने | शृङ्गारशब्दं ललितं कर्कशं वा सुरेश्वरि || ४१ || शृङ्गारशब्दमात्रेण जना यास्यन्ति सद्गतिम् | स्त्रियो देव्यः स्त्रियः प्राणाः स्त्रिय एव हि भूषणम् || ४२ || स्त्रीद्वेषो नैव कर्तव्यस्तासु निन्दां प्रहारकम् | वर्जयेद् देवदेवेशि घृणालज्जाविवर्जितः || ४३ || स्त्रीरूपं तारिणीरूपं यो वेत्ति धरणीतले | स स्त्रीपतिश्च विज्ञेयः स एव पार्वतीपतिः || ४४ || कुजे शनैश्चरे वारे गुरौ वा भार्गवे तथा | तृतीयां वा द्वितीयां वा पूजयेद् भक्तिभावतः || ४५ || प्रथमो भक्तिसम्पन्नो जनो वापि जनार्दनः | आद्यां ज्योतिर्मयीं देवीं चतुर्थी वापि शाङ्करि || ४६ || पूजयेत् पञ्चमीं विद्यां पञ्चमेन विभूषिताम् | पञ्चाननप्रियां दुर्गां पूजयेद् भक्तिभावतः || ४७ || एषा क्रिया वरारोहे सात्त्विकी राजसी तथा | तामसी चैव देवेशि श्रुता पूजा महेश्वरि || ४८ || या या पूजा निगदिता सा सा पूजा त्वया श्रुता | इदानीं कुण्डपुष्पेण गोलपुष्पेण शाङ्करी || ४९ || चक्रपुष्पेण शूलेन वज्रपुष्पेण पार्वति | कालपुष्पेण देवेशि पूजयेद्धरवल्लभाम् || ५० || तदा सिद्धिमवाप्नोति सत्यं सत्यं न संशयः | कुलमार्गे रतो जीवः शिव एव न संशयः || ५१ || कुलधर्मार्थगो जन्तुर्विहरेत् कुलमार्गके | कुलपुष्पं समाश्रित्य कुलीनाश्रममाश्रयेत् || ५२ || कलौ मत्स्यं कलौ मांसं मद्यं मुद्रां च मैथुनम् | यथा दिव्यस्तथा वीरो नास्ति भिन्नः शुचिस्मितेः || ५३ || भक्षणात् पञ्चमस्यापि न दोषो जायते नृणाम् | अशक्तानामकर्तव्यं सर्वयोनिविवर्धनम् || ५४ || मद्यपानमकर्तव्यमकर्तव्यं कलौ युगे | शाक्तानां चैव शाक्तानां कर्तव्यं सर्वसिद्धिदम् || ५५ || महापीठाश्रयं वापि महापीठस्य दर्शनम् | महापीठे यजेद् देवीं भक्त्या परमया युतः || ५६ || पूजयेद् रक्तपुष्पैश्च रक्तगन्धानुलेपनैः | बिल्वपत्रैस्तथा पुष्पैर्मणिपुष्पैश्च चम्पकैः || ५७ || रक्ताम्बुजै रक्तमाल्यै रक्ताभरणबूषणैः | महिषैश्च यजेद् देवीं भेषजैः क्षतजैरपि || ५८ || छागजैलोहितैर्देवीं गात्रजैर्ब्राह्मणैरपि | एवं विधिविधानेन पूजनं तव सुन्दरि || ५९ || कर्तव्यं द्विजलोकेषु गृह्यं तव महेश्वरि | एवं तव विधातव्या पूजा त्रिभुवनेश्वरि || ६० || तदा सिधीश्वरो भूत्वा गाणपत्यं लभेत् तु सः | न प्रकाश्यं पशोरग्रे मम दिव्यं सुरेश्वरि || ६१ || पशोर्दर्शनमात्रेण नश्यन्ति वीरशुद्धयः | महासिद्धिकरी पूजा मानसी मुक्तिदायिनी || ६२ || अन्तर्यागात्मिका सर्वजीवत्वपरिनाशिनी | बाह्यपूजा राजसी च सर्वसौभाग्यदायिनी || ६३ || भुक्तिमुक्तिप्रदा चैव सर्वापत्परिनाशिनी | सर्वदोषक्षयकरी सर्वशत्रुविनाशिनी || ६४ || सर्वरोगक्षयकरी सर्वबन्धविमोचनी | न वीराणां पशूनां च बाह्यपूजाऽधमाधमा || ६५ || केवलानां च दिव्यानां च बाह्यपूजाऽधमा इति | तोडले यामले देवि श्रुता पूजा च विस्तरात् || ६६ || तथापि पूजा संक्षेपाद् मयोक्ता गिरिनन्दिनि | स्तुतिपाठाद् दृढज्ञानात् पूजनाच्छिवसुन्दरि || ६७ || सुप्रसन्ना महाविद्या जपात् सिद्धिर्भविष्यति | जपाद् भक्तिर्जपाद् भुक्तिर्जपान्मुक्तिर्जपात् क्रिया || ६८ || जपात् तन्त्रं जपान्मन्त्रं जपाद् यन्त्रं सुरेश्वरि | जपात् कान्तिर्जपात् शान्तिर्जपात् श्रद्धा जपाद् दया || ६९ || जपात् तुष्टिर्जपात् पुष्टिर्जपाद् गतिर्जपान्मतिः | जपाद् बुद्धिर्जपाल्लक्ष्मीर्जपाज्जातिर्जपात् स्थितिः || जपाच्छान्तिर्जपाच्छान्तिर्जपाच्छान्तिर्न संशयः || ७० || || इति मुण्डमालातन्त्रे पार्वतीश्वरसंवादे पञ्चमः पटलः || ५ || अथ षष्ठः पटलः देवी उवाच पुरा श्रुतं महादेव शवसाधनमेव च | श्मशानसाधनं नाथ श्रुतं परममादरात् || १ || न स्तोत्रं कवचं नाथ श्रुतं न शवसाधने | कवचेन महादेव स्तोत्रेणैव च शङ्कर || कथं सिद्धिर्भवेद् देव कवचं ब्रूहि साम्प्रतम् || २ || श्रीशिव उवाच शृणु देवि वरारोहे दुर्गे परमसुन्दरि | सिद्ध्यर्थे विनियोगश्च कवचस्य नियन्त्रणात् || ३ || सिद्धिं सिद्धेश्वरी पातु मस्तकं पातु कालिका | कपालं कामिनी भालं पातु नेत्रं नगेश्वरी || ४ || कर्णौ विश्वेश्वरी पातु हृदयं जगदम्बिके | काली सदा पातु मुखं जिह्वां नीलसरस्वती || ५ || करौ करालवदना पातु नित्यं सुरेश्वरी | दन्तं गुह्यं नखं नाभिं पातु नित्यं हिमात्मजा || ६ || नारायणी कपोलं च गण्डा गण्डं सदैव तु | केशं मे भद्रकाली च दुर्गा पातु सुरेश्वरी || ७ || पुमान् रक्षतु मे चण्डी धनं पातु धनेश्वरी | स्तनौ विश्वेवरी पातु सर्वाङ्गं जगदीश्वरी || ८ || उग्रतारा सदा पातु महानीलसरस्वती | पातु जिह्वां महामाया पृष्ठं मे जगदम्बिका || ९ || हरप्रिया पातु नित्यं श्मशाने जगदीश्वरी | शवे पातु च शर्वाणी सदा रक्षतु चण्डिका || १० || कात्यायनी कुलं पातु सदा च शववाहिनी | घोरदंष्ट्रा करालास्या पार्वती पातु सर्वदा || ११ || कमला पातु राज्यं मे मन्त्रं मन्त्रेश्वरी तथा | इत्येवं कवचं देवि देवानामपि दुर्लभम् || १२ || यः पठेत् सततं देवि सिद्धिमाप्नोति निश्चितम् | सिद्धिकाले समुत्पन्ने कवचं प्रपठेद् यदि || १३ || अज्ञात्वा कवचं देवि यश्च सिद्धिमुपक्रमः | यश्च सिद्धिमवाप्नोति न मुक्तिर्न च सद्गतिः || १४ || अत एव महामाये कवचं सिद्धिकारकम् | देवानां च नराणां च किन्नराणां च दुर्लभम् || १५ || पठित्वा कवचं चण्डि शीघ्रं सिद्धिमवाप्नुयात् | महोत्पाते महादुःखे महाविपदि सङ्कटे || १६ || प्रपठेत् कवचं देवि पठित्वा मोक्षमाप्नुयात् | शून्यागारे श्मशाने वा कामरूपे महाघटे || १७ || स्ववामामन्दिरे कालेऽप्यथवा काममन्दिरे | मन्त्रं मन्त्री जपेद् बुद्ध्या भक्त्या परमया युतः || १८ || मूले दले फले वापि नले कालेऽनिले मले | जले पठेत् प्राणबुद्ध्या मनसा साधकोत्तमः || १९ || नाडीशुद्धिं ततः कृत्वा भाव शुद्धिं महेश्वरि | विहरेद्धरिमध्ये च सर्वशास्त्रार्थकोविदः || २० || चितामारुह्य सिद्धेशो नीलकण्ठत्वमाप्नुयात् | वामे चलति का नाडी दक्षिणे खलु जाह्नवी || २१ || मध्ये कुलाचला नाडी दुर्लभा धरणीतले | चित्रिणी पद्मिनी शङ्खा विजृम्भा शोणदा तथा || २२ || कङ्काला कूटजा नाडी कपोला गोलजा खला | निजदेहे वसन्त्येता ब्रह्मनाडीं समाश्रिताः || २३ || सर्वासां धरणीमध्ये गौरी सूक्ष्मा च तारिणी | घण्टाकर्णा लोलजिह्वा विकटा चन्द्रवल्लभा || २४ || महानीला वीरभद्रा सुलज्जा नखदा शुभा | बलाका काकिनी राका कालघण्टा शिवा सिता || २५ || दर्दुरा च दुराराध्या विशोकवदनाऽनघा | जम्भिनी पुक्कसा शोणा यशोदा मखदा खदा || २६ || खगा खरवती नाडी कोला हेला हलाहला | इडा च पिङ्गला चैव सुषुम्ना प्रागरूपिणी || २७ || गान्धारी कोटराक्षी च कुलजा कुलपण्डिता | सव्ये कनखला नाडी दक्षिणे कामपालिका || २८ || विहारं नीलकण्ठस्य देवानामपि दुर्लभम् | क्रोडे विश्वम्भरा कामा कराला मेघवाहिनी || २९ || घनभा घनदा चण्डी सुशीला वरपण्डिता | विश्वारण्या विश्ववसनी बहुपादा कटाक्षजा || ३० || नन्दिनी शोणदा गङ्गा काशी कमलवासिनी | एवं यदि महामाये भावयेत् सुरपूजिताम् || ३१ || तदैव जायते सिद्धिः सत्यं सत्यं न संशयः | बहुपादकटा घोरा निर्जिता घनभेदिनी || ३२ || नाडीविहारसम्पर्काज्जीवन्मुक्तो न संशयः | शृणु देवेशि घोराभे करालभे दिगम्बरे || ३३ || चिन्तामणिप्रसादेन किं न सिध्यति भूतले | मूले चतुर्दले पद्मे स्वाधिष्ठाने च षड्दले || ३४ || मणिपूरेऽनाहते च आज्ञाचक्रे महेश्वरि | एवं चक्रे परिन्यस्तैर्दशद्वादशषोडशैः || ३५ || दलैस्तु मङ्कुरं वर्णं न्यस्तं गावशतं मतम् | यत्र कालीपुरं देवि ब्रह्माद्यैरपि सेवितम् || ३६ || नीलकण्ठं त्रिलोकेशं सहस्राब्जनिवासिनम् | कोटीशं कुलकोटीशं साधकेन्द्रैः सुशोभितम् || ३७ || ध्यायेत् परमनिर्विण्णो देवः परमपावनः | जीवः शिवस्तु विज्ञेयो विश्वेशः सर्वदा रतिः || ३८ || ब्रह्मतत्त्वं वरारोहे देवानामपि दुर्लभम् | स्वरादिनिष्ठितं लिङ्गं स्वरव्यञ्जनभूषितम् || ३९ || वर्णमालापरिन्यस्तं लिङ्गं भुवनशोभितम् | महाबीजं महोत्साहैर्नादितं परमात्मकम् || ४० || नीलकण्ठं महादेवं सदा शक्तिसमन्वितम् | ध्यायेत् तु पूजयेद् देवं मनसा वचसा इति || ४१ || तदैव साधको लोके चान्तर्यागपरायणः | अन्तर्यागं महामाये साधकानामगम्यकम् || ४२ || ब्रह्माण्डं वै शरीरं तु सर्वेषां प्राणधारिणाम् | ब्रह्माण्डे ये गुणाः सन्ति ते तिष्ठन्ति कलेवरे || ४३ || शरीरं तत्त्वघटितं नानारसपरिप्लुतम् | चन्द्रबिन्दुसमायुक्तं नादबिन्दुविभूषितम् || ४४ || शरीरं शङ्करस्यापि दुर्लभं मुक्तिदायकम् | यावन्मुक्तिर्महामाये तावदेव हि साधकः || ४५ || तावत् क्रिया च भुक्तिश्च मुक्तिरव्यभिचारिणी | महाघोरे समाक्लेशे शरीरं ब्रह्मणः पदम् || ४६ || पावितं च प्रसूनं च देहजं सर्वमङ्गजम् | गृहीत्वा कालिकां देवीं मुण्डमालाविभूषिताम् || ४७ || पूजयेत् परया भक्त्या शिव एव न संशयः | ब्रह्माण्डघटितां मूर्तिमङ्गदैश्च विभूषिताम् || ४८ || चतुर्भूजां लोलजिह्वां नानाशक्तिसमन्विताम् | पूजयेत् परमानन्दो निजशक्तिसमन्वितः || ४९ || वामे स्ववामां देवेशि नानालङ्कारभूषिताम् | कुलचक्रस्य देवेशि प्रजपेत् तु समः शिवः || ५० || निशि चक्रे करालास्यां मुक्तकेशो दिगम्बरः | सहस्रं वाऽयुतं वापि जपेन्मदनमन्दिरे || ५१ || श्वेतं वा लोहितं वापि कुसुमं पञ्चमान्वितम् | एवं विधिविधानेन महाकाल्यै निवेदयेत् || ५२ || दिवा पूजा विधातव्या निशि पूजा महेश्वरि | सन्ध्या पूजा प्रकर्तव्या तदा सिद्धिमवाप्नुयात् || ५३ || न दिवा न निशाभागे न सन्ध्यायां कदाचन | पूजयेन्न जगद्धात्रीं हेलायां परिपूजयेत् || ५४ || दिवा न पूजयेद् देवीं रात्रौ नैव च नैव च | सर्वदा पूजयेद् देवीं दिवा रत्रौ विवर्जयेत् || ५५ || यथा इडा पिङ्गला च सुषुम्ना ब्रह्मभेदिनी | नाडीभ्रमणसम्पर्कान्मुक्तिं प्राप्नोति साधकः || ५६ || विना नाडीपरिज्ञानं विना नाडीनिषेवणम् | विना विश्वकरं देवि नहि सिध्यति भूतले || ५७ || सव्ये बिल्वं करे दक्षे मालां संगृह्य साधकः | प्रजपेत् पार्वतीमन्त्रं सर्वकार्याय भूतले || ५८ || घोरदंष्ट्रां करालास्यामट्टहासां दिगम्बराम् | प्रणम्य भक्त्या देवेशीं जपेच्चिन्तामणिं मनुम् || ५९ || चिन्तामणिप्रसादेन किं न सिध्यति भूतले | चिन्तामणिं कल्पलतां गृहीत्वा परमां शिवाम् || ६० || जप्त्वा महामनुं चण्डि देवदेवेश्वरो भवेत् | जीवः शिवत्वं लभते ज्ञानस्य वरवर्णिनि || ६१ || गुरुपादाब्जकं देवि रहस्यं परमाद्भुतम् | विचित्रं चारुपादाब्जं पार्वत्याः शङ्करस्य च || ६२ || भजेदैक्यं विधानेन जीवन्मुक्तः स एव हि | पिण्डे युक्ताः पदे युक्ता रूपे युक्ता वरानने || गुणातीताश्च ये भक्तास्ते मुक्ता नात्र संशयः || ६३ || श्रीपार्वती उवाच न पिण्डं न पदं रूपं न जानामि सुरोत्तम | कथ्यतां मे दयासिन्धो निश्चितं मतमुत्तमम् || ६४ || श्रीशिव उवाच गुह्याद् गुह्यतरं देवि सारमेकं वदाम्यहम् | पिण्डं कुण्डलिनी शक्तिः पदो हंसः प्रकीर्तितः || ६५ || रूपं चापि वरारोहे ध्यानमेव न संशयः | महाकुण्डलिनीं देवीं यो भजेत् तु भुजङ्गिनीम् || ६६ || स कृतार्थः स धन्यश्च स देवो वीरसत्तमः | स गुणी साधकोज्ञानी स मानी स च पण्डितः || ६७ || स कृतो सर्वब्रह्माण्डे देवत्वं लभते ध्रुवम् | ये दिव्याः साधकेन्द्राश्च ये वीराः साधकोत्तमाः || ६८ || पशवः पश्वो ज्ञेयाः सर्वशास्त्रार्थकोविदाः | भावशुद्धिं समास्थाय सर्वकार्यार्थकोविदः || ६९ || साधको मुक्तिमाप्नोति सत्यं सत्यं वरानने | शृणु देवि जगद्धात्रि सर्वमङ्गलमङ्गलम् || ७० || तन्त्रं शृणुयाद् देवेशि ब्रह्मनिर्वाणमाप्नुयात् | निशाभागे जपेन्मन्त्रं वामायुक्तो महेश्वरि || ७१ || अयुतं भक्तिभावेन जीवन्मुक्तः स एव हि | सहस्रमयुतं वापि कुजवारे निशामुखे || ७२ || जपेच्चिन्तामणिं मन्त्रं क्ष्मातले नात्र संशयः | चिन्तामणिप्रसादेन किं न सिध्यति भूतले || ७३ || यथाविधि विधानं च कृत्वा च मन्मथालयम् | व्रजेत् तु भक्तिभावेन स गच्छेत् परमां गतिम् || ७४ || नभोगतं महापद्मं सर्वदेवसुपूजितम् | तन्मध्यस्थं महादेवं नीलकण्ठं सदाशिवम् || ७५ || यथा शक्तियुतं देवि सर्वानन्दमनोहरम् | शुक्लं रक्तं नीलवर्णं पीतादिवर्णशोभितम् || ७६ || मनसा चिन्तितं देवि देवं परमकारणम् | ध्यानं च मनसा देवि मनसा परिपूजितम् || ७७ || मनसा पूजयेल्लिङ्गं मनसा तर्पणादिकम् | मनसा कालिकां तारां मनसा तु भुजङ्गिनीम् || ७८ || मनसा ब्रह्मनाडीं वै विदध्यात् सर्वकामदाम् | इत्येवं ध्यानयोगेन मनसा जगदम्बिकाम् || ७९ || पूजयेत् परया बुद्ध्या स विश्वेशो भवेद् ध्रुवम् | सुषुम्नामध्यगां कालीं करालवदनां शिवाम् || ८० || प्रणमेत् पार्वतीं देवीं महानीलसरस्वतीम् | उग्रताराक्रमं वक्ष्ये देवानामपि दुर्लभम् || ८१ || त्रिकोणवलयाम्भोजे महानीलसरस्वतीम् | मया बुधस्वरूपेण भावयेत् तामहर्निशम् || ८२ || हृत्पद्मे भावयेत् चण्डीं हृत्पद्मे भावयेच्छिवम् | हृत्पद्मे भावमासाद्य पूजयेद् वरवर्णिनि || ८३ || यावन्नानात्वभावं च तावदेवं पृथग्विधम् | तवात् क्रियाः पृथग्भावास्तावन्नानाविधा मताः || ८४ || तावद् भिन्नाश्च देवाश्च ब्रह्मविष्णुमहेश्वराः | गणेशं च दिनेशं च वह्निं वरुणमेव च || ८५ || कुबेरं चापि दिक्पालमेतत् सर्वं पृथक् पृथक् | तावन्नानाविधाश्चेष्टाः स्त्रीपुंनपुंसकात्मकम् || ८६ || तावद् बिल्वदलं भिन्नं देवेशि तुलसीदलात् | तावज्जवा द्रोणकृष्णा करवीराणि भूतले || ८७ || विभिन्नानि च देवेशि सत्यं वै तुलसीदलात् | तावद् दिव्यशरीरश्च तावत् तु पशुभावकः || ८८ || तावत् तन्त्रे भेदबुद्धिस्तावदेव पृथक् क्रिया | हरौ हरे भेदबुद्धिर्जायते जगदम्बिके || ८९ || करालवदना काली श्रीमदेकजटा शिवा | षोडशी भैरवी भिन्ना भिन्ना च भुवनेश्वरी || ९० || छिन्ना भिन्नाऽन्नपूर्णा च भिन्ना च बगलामुखी | मातङ्गी कमला भिन्ना भिन्ना वाणी च राधिका || ९१ || भिन्ना चेष्टा क्रिया भिन्ना भिन्नो वाचारसंग्रहः | यावन्नैक्यं पादपद्मे भवान्या नैव जायते || ९२ || अद्वैते तारिणीपादपद्मे परमपावने | ज्ञानपारे समुत्पन्ने हृत्पद्मनिलयं तथा || ९३ || ऐक्यं भवति चार्वङ्गि सर्वं ब्रह्ममयात्मकम् | ----------------------------------------जीवेषु शाङ्करि || ९४ || न च पापं न वा पुण्यं न यमो नरकं न च | न सुखं नापि दुःखं च न रोगेभ्यो भयं तथा || ९५ || न भयं नापि शोकं च सर्वं ब्रह्ममयात्मकम् | ब्राह्मणी क्षत्रीया वैश्या वैश्यजा शूद्रजाऽन्त्यजा || ९६ || तथैव तारिणी विद्या यथा विद्या तथा तथा | एवं ज्ञानं महेशानि यथा वै जायते प्रिये || ९७ || तथैव विद्या देवेशि विद्याऽविद्याविरोधिनी | जायते नात्र सन्देहो ब्रह्मानन्दमयो भवेत् || ९८ || अद्वैतं च गुणातीतं निर्गुणं प्रकृतेः परम् | परमानन्दसंयुक्तो मुक्तिं यास्यति निश्चितम् || ९९ || इति सत्यं पुनः सत्यं सत्यं चण्डि वरानने | तत्त्वज्ञानात् परं नास्ति नास्ति देवः सदाशिवात् || १०० || नास्ति भावस्तु मध्यस्थाद् नास्ति दुर्गासमं पदम् | सोऽहं सोऽहं पुनः सोऽहं सोऽहमित्येव जायते || १०१ || तदेव चिरकालेन सोऽहं ज्ञानं प्रजायते | नानात्वबुद्धिं कृत्वा वै सात्त्विकीं परमात्मिकाम् || १०२ || गृहीत्वा च वरारोहे जायते परमार्थवित् | ज्ञानात् परतरं नास्ति नास्ति नास्ति वरानने || १०३ || लब्ध्वा हि तत्त्वं परमं मुच्यते देहबन्धनात् | कुलवारे कुलीनस्तु कुलधर्मं कुलव्रतः || १०४ || आश्रयेत् परमानन्दः परमानन्दमेव च | न कुलीने परा बुद्धिर्न कुलीनपरा गतिः || १०५ || न कुलीने परा भक्तिर्न कुलीने परा क्रिया | एवं वदति यो यस्तु स मुक्तिं न च याति वै || १०६ || इहैव स्वर्गो देवेशि इह कैलासमन्दिरम् | इहैव भुक्तिर्भक्तिश्च मुक्तिरव्यभिचारिणी || १०७ || भोगः स्वर्गश्च मोक्षश्च करस्थश्चैव शाङ्करि | शाक्तानां त्रिपुरेशानि सत्यं चण्डि न संशयः || १०८ || श्रीपार्वती उवाच नीलकण्ठ महादेव महेश्वर जगद्गुरो | पृच्छामि परमं तत्त्वं ब्रूहि नाथ जगत्प्रभो || १०९ || कथं वा जायते मुक्तिर्भुक्तिर्भक्तिर्महेश्वरे | जीवः शिवत्वं लभते केन रूपेण शङ्कर || ११० || श्रीशिव उवाच विश्वेश्वरि जगद्धात्रि महामाये महेश्वरि | गुह्याद् गुह्यतरं वाक्यं शृणुष्व नगनन्दिनि || १११ || शान्तं दान्तं कुलीनं च सर्वशास्त्रार्थकोविदम् | एवं गुह्यं महेशानि आश्रयेद् भक्तिभावतः || ११२ || ततः प्रथमतो लब्ध्वा गुरुं परमकारणम् | गृह्णीयात् परमं मन्त्रं देव्याश्च वरवर्णिनि || ११३ || सेतुं च कुल्लुकां ज्ञात्वा मन्त्रसङ्केतकं तथा | समयाचारसङ्केतं ज्ञानभावं समभ्यसेत् || ११४ || पूजयेत् परया भक्त्या पार्वतीं पटलक्रमात् | यथा गुरुविधानेन पूजयेत् परदेवताम् || ११५ || चतुर्भूजां दशभुजां सहस्रभुजसंयुताम् | लोलजिह्वां करालास्यां मुण्डमालाविभूषिताम् || ११६ || प्रणमेत् प्रजपेद् ध्यायेद् देवीं द्रव्यैः प्रपूजयेत् | जवापराजिताद्रोणकरवीरैर्मनोहरैः || ११७ || पूजयेद् रक्तकुसुमैः सुगन्धैश्चारुशोभनैः | नानापुष्पैश्च देवेशि पूजयेद् भक्तिभावतः || ११८ || पाद्यार्घ्याचमनीयाद्यैर्नानाद्रव्यैर्मनोहरैः | गन्धैः पुष्पैश्च धूपैश्च दीपैरम्बरभूषणैः || ११९ || नैवेद्यैर्विविधैर्द्रव्यैस्ताम्बूलैश्चर्वणोत्कटैः | पुनराचमनीयैश्च पूजयेज्जगदम्बिकाम् || १२० || एवं पूजा विधातव्या यथाशक्त्या वरानने | पूजयित्वा तु प्रणमेत् पार्वतीं तन्त्रजैः स्तवैः || १२१ || स्तोत्रस्य कवचस्यापि पठनाज्जगदम्बिका | भुक्तिमुक्तिप्रदा चण्डी भक्तिदा सर्वमङ्गला || १२२ || बाह्यपूजा प्रकर्तव्या गुरुवाक्यानुसारतः | अन्तर्यागात्मिका पूजा बाह्यपूजा महेश्वरि || १२३ || सर्वपूजा विधातव्या यावज्ज्ञानं न जायते | एवं विप्रप्रणामेन जपेन तपसाऽपि वा || १२४ || माहेशी सा प्रसन्नाऽभूत् स्तवेन कवचेन च | ततो देवि महेशानि सिद्धिविद्या यदा भवेत् || १२५ || तदैव पूजया सिद्धिः क्रियया बुद्धियुक्तया | एवं देव्यनुग्रहतो ज्ञानमुत्पद्यते खलु || १२६ || तदा कालात्यये चण्डि क्रियाभक्तिश्च निष्फला | केवला प्रेयसी मुक्तिर्महादेवस्य भाविनी || १२७ || श्रीपार्वती उवाच श्रुतं परमतन्त्रं वै सारात् सारं परात् परम् | यत् श्रुत्वा मोक्षमाप्नोति कर्मपाशनिकृन्तनात् || १२८ || श्रीशिव उवाच शृणु देवि वरारोहे ममैव निश्चितं तव | दुर्गा हि परमं मन्त्रं दुर्गा हि परमो जपः || १२९ || दुर्गा हि परमं तीर्थं दुर्गा हि परमा क्रिया | दुर्गा हि परमा भुक्तिर्दुर्गा मुक्तिर्महीतले || १३० || बुद्धिर्निद्रा क्षुधा छाया शक्तिस्तृष्णा तथा क्षमा | क्रिया सर्ववरिष्ठा च वैदिकी तान्त्रिकी च या || १३१ || एवं सर्वं हि दुर्गा हि दुर्गाभिन्नं न तज्जपः | भजेद् दुर्गापदद्वन्द्वं स्मरेद् दुर्गामहर्निशम् || १३२ || प्रजपेद् देवि दुर्गेति मन्त्रं परमकारणम् | य एवं भक्तिमास्थाय प्रकरोति क्रियां शिवे || १३३ || सर्वसिद्धियुतो भूत्वा विहरेत् क्षितिमण्डले | नानातन्त्रे पृथक् चेष्टा मयोक्ता गिरिनन्दिनि || १३४ || ऐक्यं ज्ञानं यदा देवि तदा सिद्धिमवाप्नुयात् | स्थावरे जङ्गमे चैव यदा तुल्यमना भवेत् || १३५ || किं न सिध्यति विश्वेशि परत्रेह च पार्वति | एवं भुक्तिश्च मुक्तिश्च भक्तिश्च जगदम्बिके || १३६ || तव ज्ञानं तदैवान्ते ततो निर्वाणमाप्नुयात् || एवं वै कथितं चण्डि किं भूयः श्रोतुमिच्छसि || १३७ || श्रीपार्वती उवाच श्रुतं परमतत्त्वं वै श्रुतं परममादरात् | श्रुतं काल्याश्च चरितं तारायाश्च श्रुतं मया || १३८ || इदानीं श्रोतुमिच्छामि मन्त्रसिद्धिः कथं भवेत् | विद्यासिद्धिः कथं देव तद् वदस्व दयानिधे || १३९ || श्रीशिव उवाच इदानीं शृणु देवेशि मन्त्रसिद्धेस्तु कारणम् | मन्त्रार्थं मन्त्रचैतन्यं यामले कथितं मया || १४० || डामरे च श्रुतं चण्डि कुलोड्डीशे कुलार्णवे | संक्षेपेण वदिष्यामि मन्त्रसिद्धेस्तु कारणम् || १४१ || किं बहूक्त्या महेशानि गुरुभक्त्या च सिध्यति | कुलवारे महेशानि सहस्रमयुतं जपेत् || १४२ || शनैश्चरे चतुर्दश्याममायां कुजवासरे | स्थित्वा कुशासने ज्ञानी मन्त्रसिद्धिपरायणः || १४३ || अयुतं भक्तिभावेन सहस्रं वा वरानने | अन्तर्यागं ततः कृत्वा सर्वसिद्धीश्वरो भवेत् || १४४ || अश्वत्थे वटमूले वा निम्बबिल्वमूलेऽथवा | पूजयेत् परया बुद्ध्या मन्त्रसिद्धिं जनो लभेत् || १४५ || विश्वेश्वरि महामाये सर्वविघ्नविनाशिनि | एवं मासत्रयं कुर्यादन्तर्यागेन शुध्यति || १४६ || तदा सिद्धिमवाप्नोति सत्यं सत्यं न संशयः | सुषुम्नान्तः स्थितां देवीं पद्मकिञ्जल्कवासिनीम् || १४७ || ध्यायेन्नाडीविशुद्धेन मन्त्रसिद्धिरनुत्तमा | अथवा शृणु चार्वङ्गि क्रियाहीनं मतं मम || १४८ || केवलं ध्यानमास्थाय मन्त्रसिद्धिर्भवेद् ध्रुवम् | कालिकां हृदयाम्भोजे ध्यायेत् परमदेवताम् || १४९ || योगसिद्धिं समास्थाय मन्त्रसिद्धिर्भवेन्नृणाम् | पुरा पृच्छामि गदिता दुर्लभा या महीतले || १५० || सा पृच्छा ते निगदिता किं न सिध्यति भूतले | शक्तियामलके सिद्धेश्वरतन्त्रे कुलाचले || १५१ || विद्यासिद्धिर्निगदिता दुर्लभा धरणीतले | काली तारा महाविद्या षोडशी भुवनेश्वरी || १५२ || भैरवी छिन्नमस्ता च विद्या धूमावती तथा | बगला सिद्धिविद्या च मातङ्गी कमलात्मिका || १५३ || एता दश महाविद्याः सिद्धिविद्याः प्रकीर्तिताः | एषा विद्या प्रकथिता सर्वतन्त्रेषु गोपिता || १५४ || सर्वसिद्धिप्रदा नित्या नित्यानन्दमयी शिवा | विद्यासिद्धिर्महेशानि भविष्यति यदा भवेत् || १५५ || ऐन्द्रवं चन्द्रवदने चन्द्रतत्त्वं वरानने | कुबेरत्वं शिवत्वं वा विष्णुत्वं विश्वगेहिनी || १५६ || तत्क्षणाद् देवदेवशि जायते नात्र संशयः | विद्यासिद्धेः प्रकरणं पूर्वोक्तं त्रिपुरेश्वरि || १५७ || इदानीं कथयाम्यत्र विद्यासिद्धिमनुत्तमाम् | श्मशानेऽश्वत्थमूले वा शवे वा शून्यमन्दिरे || १५८ || प्रजपेत् कालिकां तारां महाविद्या प्रसीदति | जपेन तपसा स्तोत्रैरन्तर्यागैर्मनोहरैः || १५९ || पूजनैः कवचैर्देवि महाविद्या प्रसीदति | अनेनैव विधानेन पूजनं यः करोत्यहो || १६० || सुप्रसन्ना जगद्धात्री महामाया प्रसिध्यति | मन्त्रसिद्धेर्महाविद्या सिद्धेः कारणमग्रतः || कथितं ते जगद्धात्रि किं भूयः श्रोतुमिच्छसि || १६१ || श्रीपार्वती उवाच श्रुतं सिद्धेः कारणं तु सर्वसिद्धिकरं परम् | यज्ज्ञात्वा मोक्षमाप्नोति जीवः परमकोविदः || १६२ || नानातन्त्रं श्रुतं देवदेव विश्वेश्वर प्रभो | इदानीं श्रोतुमिच्छामि नीलकण्ठ सदाशिव || १६३ || माहात्म्यं कालिकायाश्च तारायाश्च सुरेश्वर | श्रोतुमिच्छाम्यहं नाथ यतस्त्वं कालिकापतिः || तारापतिस्त्वं देवेश वद शीघ्रं सदाशिव || १६४ || श्रीशिव उवाच धन्यासि पतिभक्तासि चार्वङ्गि शृणु मद्वचः | कालिकायाश्च ताराया माहात्म्यं सिद्धिदायकम् || १६५ || यथा काली तथा तारा एकदैव हि भिन्नता | दक्षांशा चैव वामांशा यथानुक्रमसारतः || १६६ || नहि कालिसमा पूजा नहि कालीसमं फलम् | नहि कालीसमं ज्ञानं नहि कालीसमं तपः || १६७ || तस्यैव धन्या जननी धन्यस्तस्य पितामहः | धन्यं कुलं यशश्चण्डि येन काली समर्चिता || १६८ || काली तारासमा विद्याचारे स्तुतिविचारणे | यन्त्रे मन्त्रे फलं तुल्यं न विशेषः कथञ्चन || १६९ || इत्येवं भेदबुद्ध्या तु कथितं चरितं प्रिये | अभेदबुद्ध्या देवेशि सर्वास्तुल्या न संशयः || १७० || श्रीमदेकजटा देवी उग्रतारा सरस्वती | व्यालानां दमने कृष्णरक्षणे यमुनाजले || १७१ || पपात तारिणी विद्या नीलवर्णा सरस्वती | देवैश्चैव हि देवेन्द्रैर्योगीन्द्रैः साधकोत्तमैः || १७२ || साधकैर्मुनिभिः सर्वैर्गन्धर्वैः किन्नरैः खगैः | विद्याधरैर्नर्तकैश्च नाना-ऋषिगणैरपि || १७३ || आराधिता महाकाली महानीलसरस्वती | वदन्ति साधकाः सर्वे कालीं कालविनाशिनीम् || १७४ || नीलां सरस्वतीं विद्यामुग्रतारां मनोहराम् | कालिकायाश्च ताराया माहात्म्यं देवदुर्लभम् || १७५ || कः शक्नोति महीमध्ये तस्य माहात्म्यकोविदः | दशविद्याऽष्टादशधा विद्यारूपां सुरेश्वरीम् || १७६ || भजते यः साधकेन्द्रो भवत्येवं सुरेश्वरि | इत्येवं शृणु देवेशि माहात्म्यं भुवि दुर्लभम् || १७७ || यासां विज्ञानमात्रेण जीवन्मुक्तः प्रजायते | यथा शिवस्तथा जीवो जीवस्तु शिव एव हि || १७८ || जायते परमं ज्ञानं भावज्ञानाद् वरानने | अपरं शृणु चार्वङ्गि सावधानाऽवधारय || १७९ || स्तोत्रं च कवचं देव्याः कालिकाया महेश्वरि | ताराया न श्रुतं चण्डि सर्वमोहनकारणम् || १८० || षट्कर्मसिद्धिदं मन्त्रं स्तोत्रं कवचमुत्तमम् | न प्रकाश्यं च कुत्रापि सर्वसम्पत्प्रदं प्रिये | इदानीं कथयाम्यत्र जीवमोहनकारणम् || १८१ || श्रीपार्वती उवाच वद नाथ जगत्स्वामिन् प्रभो श्रीकण्ठ शङ्कर | मोहनं कवचं नाथ स्तोत्रं कवचमेव हि || १८२ || सर्वविघ्नह्वरं देवि सर्वशान्तिकरं तथा | देवानामपि दुर्ज्ञेयं वद नाथ जगद्गुरो || १८३ || श्रीशङ्कर उवाच नमस्ते जगदीशानदयिते हरवल्लभे | विश्वेश्वरि जगद्धात्रि त्रैलोक्यमोहनं कुरु || १८४ || मन्त्रोद्धारं प्रवक्ष्यामि सावधाना सुरेश्वरि | लान्तं वान्तं मान्तयुक्तं स्वर ------------त्मकं प्रिये || १८५ || कान्तं शक्तियुतं देवि जलयं चापि वाऽन्वितम् | ऋणग्रजं षाग्रजं कुकयुगाग्रजमेव हि || १८६ || शक्तियुक्तं मन्त्रयज्ञशेषं समुदीरयेत् | इत्येवं मन्त्रराजं च यो जपेज्जगदम्बिके || १८७ || त्रैलोक्यमोहनो भूत्वा सर्वसम्पल्लभेत् तु सः | धारणं युगलं फान्तं तान्तं बिन्दुद्वितीयकम् || १८८ || वाक्वादिन्यमुकं मे वशमानय वै फकी | मन्त्रं चायुतमेवं च सहस्रं वाऽयुतं निशि || १८९ || तदैव देवीं देवं वा नरं वा वशमानयेत् | इयं वशकरी विद्या सर्वतन्त्रेषु गोपिता || १९० || पूजयेद् भक्तिभावेन प्रणमेद् राजमोहिनीम् | स्मृत्वा तु मनसा देवीं जपेन्मन्त्रं कुजे दिने || १९१ || शनैश्चरदिने देवि रात्रौ स्तोत्रं पठेद् यदि | अचिरेणैव कालेन स भवेद् राजवल्लभः || १९२ || घोरदंष्ट्रे करालास्ये मत्स्यमांसबलिप्रिये | नमस्ते विश्वजननि नमस्ते विश्वभाविनि || १९३ || नमस्ते जगदीशानदयिते भक्तवत्सले | नमस्ते परमानन्ददायिनि राजमोहिनि || १९४ || नमस्तेऽस्तु सादानन्दे नमस्ते शङ्करप्रिये | नमस्ते मङ्गले तुभ्यं सर्वमङ्गलमङ्गले || १९५ || विश्वमातर्जगद्धात्रि नमस्ते त्रिपुरेश्वरि | नमस्ते ब्रह्मनमिते नमस्ते वरदे शिवे || १९६ || मेघश्यामे जगद्धात्रि कराले विकटे शुभे | हरभार्ये हराराध्ये नमस्ते हरपूजिते || १९७ || हरीन्द्र - ब्रह्म - चन्द्रादि - पञ्चाननसुपूजिते | नमस्तेऽस्तु महारौद्रे महाघोरे महोत्सवे || १९८ || महानन्दे महाकालि महाकालप्रपूजिते | विश्वेश्वरि नमस्तेऽस्तु नमस्ते भुवनेश्वरि || १९९ || कामरूपे च कामाक्षे कामपुष्पविभूषिते | सर्वकामप्रदे देवि काममन्दिरवन्दिते || २०० || सर्वकामस्वरूपे च कामदेवप्रपूजिते | कामेश्वरि कलानाथवदने कामवल्लभे || २०१ || क्रियामार्गरते कामे निष्ठाकामे कलात्मिके | नमस्ते चण्डिके चण्डे चण्डमुण्डविनाशिनि || २०२ || राजेश्वरि रमे रामपूजिते राजवल्लभे | रामप्रिये रमरते बलरामप्रपूजिते || २०३ || नभश्च्छिन्नकराले च कराले चण्डि पार्वति | नमस्ते सगुणे देवि निर्गुणे निर्गुणात्मिके || २०४ || जगद्धात्रि जये देवि विजये हरवल्लभे | नमस्ते शङ्करानन्ददायिके शङ्करप्रिये || २०५ || नमः कृष्णे पीतवर्णे शुक्लरक्तस्वरूपिणि | महानीले नीलवर्गे महानीलसरस्वति || २०६ || वागीश्वरि नमस्तेऽस्तु पद्मे पद्मनिवासिनि | इति ते कथितं देवि स्तोत्रं वै जनमोहनम् || २०७ || पठनात् स्तवराजस्य किं न सिध्यति भूतले | मन्दे चन्द्रात्मजे जीवे निशाभागे निशामुखे || २०८ || प्रपठेत् स्तवराजं तु सर्वसिद्धीश्वरो भवेत् | ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा वरवर्णिनि || २०९ || स्तोत्रप्रपठनाद् देवि जगद्वशनयो भवेत् | वशीकरणमेतत् तु स्तवराजं मनोहरम् || २१० || यं यं मन्त्रेण देवेशि परमाकर्षयत्यहो | स एव वशतां याति देवराजसमो यदि || इत्येवं कथितं स्तोत्रमधुना कवचं शृणु || २११ || श्रीशिव उवाच शृणु देवि प्रवक्ष्यामि अप्रकाश्यं महीतले | श्रुत्वा पठित्वा कवचं शवसिद्धिमवाप्नुयात् || २१२ || पार्वती मस्तकं पातु कपालं जगदम्बिका | कपालं चापि गण्डं च दुर्गा पातु महेश्वरी || २१३ || विश्वेश्वरी सदा पातु वक्षोमूलं शिवप्रिया | नाभिदेशं जगद्धात्री जगदानन्दवल्लभा || २१४ || हृदयं चण्डिका पातु बाहू परमदेवता | केशांश्च पञ्चमी विद्या सभायां पातु भैरवी || २१५ || नित्यानन्दा यशः पातु लिङ्गं लिङ्गेश्वरी मुदा | भवानी पातु मे पुत्रं पत्नीं मे पातु दक्षजा || २१६ || कामाख्या देहसकलं पातु नित्यं नभोगतम् | महाकुण्डलिनी नित्यं पातु मे जठरं शिवा || २१७ || वह्निजाया सदा यज्ञे पातु कर्म स्वधा पुनः | अरण्ये विजने पातु दुर्गा देवी रणे वने || २१८ || जले पातु जगन्माता देवी त्रिभुवनेश्वरी | इत्येवं कवचं देवि दुर्ज्ञेयं राजमोहने || २१९ || कवचस्यापि पठनाद् राजराजेश्वरो भवेत् | यत्र कुत्र दिने स्तोत्रं कवचं वरवर्णिनि || २२० || पठित्वा सर्वसौभाग्यं लभते नात्र संशयः | एवं निरन्तरं स्तोत्रं कवचं राजमोहनम् || २२१ || जपेन्मन्त्रं क्षितितले वश्यं याति महीपतिः | पूजायाः परया भक्त्या क्रियया च विना शिवे || २२२ || केवलं जपमात्रेण सिध्यत्येवं न संशयः | या पृच्छा ते नितदिता कथिता वरवर्णिनि || इदानीं देवदेवेशि किं भूयः श्रोतुमिच्छसि || २२३ || || इति मुण्डमालातन्त्रे षष्ठः पटलः || अथ सप्तमः पटलः श्रीदेवी उवाच | कथ्यतां मे दयासिन्धो जगदीश जगद्गुरो | जगत्कर्ता जगत्पाता जगद्धाता त्वमेव हि || १ || त्रिषु लोकेषु विश्वेश त्वत्तो भिन्नः कदाचन | नास्ति कर्ता महादेव किमेतत् कथयामि ते || २ || गोलोके न च कैलासे न ब्रह्ममन्दिरे प्रभो | न वैकुण्ठे न वा सौरे नक्षत्रे न शशिपुरे || ३ || वक्ता कर्ता च पाता च हर्ता च त्रिपुरेश्वर | पृच्छामि परमं तत्त्वं योगिनीयोगसाधनम् || योगिनीहृदयाम्भोजे योगिनीहृदये तथा || ४ || श्रीशिव उवाच सेयं गोप्या च देवेशि ब्रह्मेति यां विदुः शिवे | परं ब्रह्म परं धाम सच्चिदानन्दमव्ययम् || ५ || योगीन्द्राणां ज्ञानगम्यमगम्यं मनसा अपि | अन्येषां च वरारोहे जगद्धात्रि शृणु प्रिये || ६ || सर्वेषां च मया ज्ञानं ज्ञातं त्वयाख्यमव्ययम् | नारीणां हृदयाम्भोजं न च वेद कथञ्चन || ७ || श्रीपार्वती उवाच सत्यं च कथितं नाथ सत्यमेव वदाम्यहम् | अबलानां च हृदयं मन्त्रसाध्यं च कथ्यताम् || ८ || पुरुषा नैव नानन्ति स्वभावात् तु व्यतिक्रमम् | देवदेव महादेव संसारार्णवतारकम् || ९ || जानामि हृदयं पुंसां काठिन्यं लोलमानसम् | अत एव महादेव शीघ्रं वद सदाशिव || १० || केन रूपेण सा दुर्गा सुप्रसन्ना महीतले | स्तवेन कवचेनाऽपि ज्ञानेन जगदीश्वरी | प्रसन्ना च महाविद्या भवेत् परमकारणे || ११ || श्रीशङ्कर उवाच शृणु देवि महादेवि विश्वेश्वरि जगन्मयि | येन रूपेण सा काली तारा त्रिपुरसुन्दरी || १२ || भैरवी चैव कमला दुर्गा च भुवनेश्वरी | या या विद्या महेशानि कथिता भुवनेश्वरी || १३ || सा विद्या च प्रसन्नाऽभूत् केवलं ज्ञानमात्रतः | विना ज्ञानान्न वै ध्यानं न क्रिया न च सद्गतिः || १४ || न च भुक्तिर्न वा मुक्तिर्न भुक्तिर्बुद्धिरेव हि | श्मशानसिद्धिश्च न वा न च सिद्धिः शवात्मिका || १५ || न विज्ञानं महेशानि न वा सिद्धिः प्रजायते | ज्ञाने यदा समुत्पत्ने सर्वाः सिध्यन्ति सिद्धयः || १६ || ज्ञाने ज्ञाने महेशानि विकल्ं पूजनं जपः | तपो भक्तिः क्रिया स्तोत्रं कवचं विफलं प्रिये || १७ || अत एव परं तत्त्वं ज्ञानं परमसाधनम् | यो जानाति जगद्धात्रि स शिवो नात्र संशयः || १८ || कौलिकं कौलिकं देवि न त्यजेत् तु कथञ्चन् | परित्यागे वरारोहे सर्वं भवति निष्फलम् || १९ || एवं शक्तिविधानेन शाक्तः सर्वविचारणात् | जीवन्मुक्तः सर्वलोके जायते नात्र संशयः || २० || मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः | न वेत्ति किञ्चिद् देवेशि सत्यं च वरवर्णिनि || २१ || सङ्केतं गुरुसङ्केतं जीवसङ्केतकं तथा | दिव्यानां चैव वीराणां पशूनां वरवर्णिनि || २२ || भावसङ्केतकं देवि ब्रह्मसङ्केतकं तथा | समयाचारसङ्केतं वीरसाधनमुत्तमम् || २३ || श्मशानसाधनं भद्रे शवसाधनमेव हि | एवं नानाविधानं च मयोक्तं यामले प्रिये || २४ || तदा सिद्धिमवाप्नोति यस्तन्त्रे खलु कोविदः | कथितं डामरे नाऽथ मुक्तिर्यामलके प्रिये || २५ || नानातन्त्रे महेशानि कथितं वरवर्णिनि | दुर्गासेवनमात्रेण विधिवाक्यानुसारतः || २६ || मुक्तिं याति नरः सत्यं लब्ध्वा तत्त्वं मनोहरम् | विना तत्त्वपरिज्ञानात् न सुखं न परां गतिम् || २७ || लभते मानवः सत्यं देवेशि जगदम्बिके | काली करालवदना मुण्डमालाविभूषिता || २८ || कामाख्या कामिनी काम्या करालास्या दिगम्बरा | अट्टहासा घोरनादा मेघश्यामा भयानका || २९ || सर्वबीजस्वरूपा सा महाबीजस्वरूपिणी | सार्द्धपञ्चाक्षरी विद्या वशिष्ठादिप्रपूजिता || ३० || सिद्धेन्द्रैश्चापि योगीन्द्रैर्मुनीन्द्रैरपि सेविता | देवेन्द्रैश्चापि वीरैन्द्रैः साधकेन्द्रैः प्रपूजिता || ३१ || एवंभूता महामाया सर्वतत्त्वविभाविनी | सङ्केतं कालिकायाश्च तारायाश्च श्रुतं मया || ३२ || कालीतन्त्रे भैरवे च श्रुतं तन्त्रे च यामेले | श्रुतं न भैरवीतन्त्रे भैरव्याश्चरितं प्रिये || ३३ || भुवनायाश्च विद्यायाश्चरितं नैव सुन्दरि | इदानीं चापि संक्षेपाद् वदिष्यामि वरानने || ३४ || पद्मा त्रिशक्तिर्धनदा वाणी पूर्णा महेश्वरि | दुर्गा भगवती देवी भुवनायाः प्रतिष्ठिताः || ३५ || एका देवी जगद्धात्री नानारूपविधारिणी | तां भजेत् साधकेन्द्रश्च सर्वज्ञादिप्रपूजिताम् || ३६ || महामायां जगद्धात्रीं सर्वालङ्कारभूषिताम् | वाणी माया पुनर्माया महामन्त्रस्वरूपिणी || ३७ || ततश्च केवला माया साधकैरपि सेविता | पाशादित्र्यक्षरी विद्या यमभीतिविमर्दिनी || ३८ || सर्वसम्पत्प्रदा मुक्तिदायिनी मुक्तिवल्लभा | महायोगमयी विद्या सर्वज्ञानमयी ततः || ३९ || पूजिता साधकैः सर्वैः सर्वालङ्कारभूषिता | एवं ते कथिता देवि देवदेवैः प्रपूजिता || ४० || भुवनेशी महाविद्या देवानामपि दुर्लभा | यदि भाग्यवशाद् देवि चतुर्थीं लभते नरः | चतुर्वर्गमयो भूत्वा परं ब्रह्माऽधिगच्छति || ४१ || श्रीदेवी उवाच दीनबन्धो दयासिन्धो प्रभो शङ्कर भो हर | श्रोतुमिच्छामि देवेश ज्ञानदः शङ्करो यतः || ४२ || देवदेव महादेव नमस्तुभ्यं सदाशिव | नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर || ४३ || विश्वेश्वर जगद्बन्धो नीलकण्ठ नमोऽस्तु ते | ज्ञानेश ज्ञानदानन्ददायक ज्ञानवर्द्धक || ४४ || ज्ञानाधीश ज्ञानपते नमः कोचवधूपते | नमस्ते परमानन्द नमस्ते भक्तवत्सल || ४५ || नमस्ते पार्वतीनाथ गङ्गाधर नमोऽस्तु ते | विश्वेश्वर जगद्बन्धो जगदीश सदाशिव || ४६ || नमोऽस्तु ते महादेव त्रिलोकेश महेश्वर | नमस्ते योगतन्त्रज्ञ नमः कालीपते नमः || ४७ || नमस्तारापते तुभ्यं नमस्ते भैरवीपते | वाणीपते जगन्नाथ नमस्ते चण्डिकापते || ४८ || तव रूपतरोर्बीजफलरूपं फलप्रद | नमस्ते सर्वबीजज्ञ बीजाधार नमोऽस्तु ते || ४९ || उमापते नमस्तुभ्यं नमस्तुभ्यं त्रिलोचन | पञ्चानन नमस्तुभ्यं नमस्ते शशिशेखर || ५० || शम्भो महेश्वर विभो विरूपाक्ष चतुर्भुज | नमस्ते पर्वता ---------चण्डीपते नमः || ५१ || त्रिलोकेश दयासिन्धो करुणामय शङ्कर | भक्तवत्सल देवेश नीलकण्ठ सदाशिव || ५२ || नमः काशीपते तुभ्यं नमस्ते चन्द्रशेखर | नमश्चण्डीपते तुभ्यं श्रीपते पार्वतीपते || ५३ || नमस्ते जगदाधार चतुरानन वत्सल | नमः क्रियापते तुभ्यं नमस्ते मुक्तिद प्रभो || ५४ || अहमेवाऽबला बाला कथं जानामि शङ्कर | निर्गुणा सगुणं ज्ञातुं न समर्था कथञ्चन || ५५ || श्रीशिव उवाच निर्गुणा प्रकृतिः सत्या अहमेव च निर्गुणः | सदैव सगुणा त्वं हि सगुणोऽहं सदाशिवः || ५६ || सत्यं च निर्गुणा देवी सत्यं सत्यं हि निर्गुणः | उपासकानां सिद्ध्यर्थं सगुणा सगुणो मतः || ५७ || नानातन्त्रमतं देवी नानायत्नात् प्रकाशितम् | ब्रह्मस्वरूपं विज्ञातुं कः समर्थो महीतले || ५८ || नानामार्गे विधावन्ति पशवो हतबुद्धयः | श्रीदुर्गाचरणाम्भोजं हित्वा यान्ति रसातलम् || ५९ || सत्यं वच्मि दृढं वच्मि हितं पथ्यं पुनः पुनः | न मुक्तिश्च न मुक्तिश्च विना दुर्गानिषेवणात् || ६० || देवि दुर्गा परं ब्रह्म श्रुतं काली श्रुतं त्वया | ताराश्रुतौ श्रुतं देवि श्रुतं ब्रह्मवरेण च || ६१ || ब्रह्मा विष्णुश्च रुद्रश्च वामनश्च दिवौकसः | तत्पादसेवनाद् देवि वयं वै साधकोत्तमाः || ६२ || न देवेशो गणपतिर्नो ब्रह्मा नो हरो हरिः | हरिर्हरिरहं देवि सर्वे पादाब्जभावुकाः || ६३ || त्वत्प्रसादान्महेशानि ब्रह्मा सृष्टिं करोत्यसौ | त्वत्प्रसादात् हरिः पाता हरो हर्ता महीतले || ६४ || वासवश्चाऽमराधीशो-----------------रूपाः स्मृताः | ते सर्वे निर्जरा देवि त्वत्प्रसादान्महीतले || ६५ || त्वत्पादपद्मसम्पर्काद् देवदेवोऽपि शङ्करः | अतस्त्वं जगदीशानदयिते भक्तवत्सले || ६६ || दृष्टिं कुरु महामाये नमस्तस्यै नमो नमः | त्वं च काली त्वं च तारा षोडशी त्वं वरानने || ६७ || त्वं देवि भुवना बाला छिन्ना धूमा महेश्वरि | त्वं देवि बगला भीमा कमला त्वं महेश्वरि || ६८ || मातङ्गी त्वन्नपूर्णा त्वं धनदा त्वं शिवप्रिये | दुर्गा त्वं विश्वजननी दशाऽष्टादशरूपिणी || ६९ || सप्तकोटिमहाविद्या उपविद्यास्वरूपिणी | कुमारी रमणीरूपा सुरूपा नगनन्दिनी || ७० || शिवपूज्या शिवाराध्या ब्रह्मपूज्या सुरेश्वरी | शिवो भिन्नः शिवा भिन्ना न जीवे वामलोचना | इति जानामि विश्वेशि सत्यं सत्यं न संशयः || ७१ || श्रीपार्वती उवाच सत्यं मे कथितं नाथ सत्यरूपोऽसि शङ्कर | अहं च त्रिषु लोकेषु पार्वतीश्वर शङ्कर || विशेषं देवदेवेश सर्वज्ञ कथयस्व मे || ७२ || श्रीशिव उवाच विशेषं न च जानामि कथयस्व वरानने | सर्वज्ञाऽसि महेशानि यतः सर्वज्ञवल्लभा || ७३ || श्रीपार्वती उवाच गोलोके चैव राधाऽहं वैकुण्ठे कमलात्मिका | ब्रह्मलोके च सावित्री भारती वाक्स्वरूपिणी || ७४ || कैलासे पार्वती देवी मिथिलायां च जानकी | द्वारकायां रुक्मिणी च द्रौपदी च गजाह्वये || ७५ || गायत्री वेदजननी सन्ध्याऽहं च द्विजन्मनाम् | योगमध्येऽप्युषाऽहं च पुष्पे कृष्णाऽपराजिता || ७६ || पत्रे मालूरपत्राऽहं पीठे योनिस्वरूपिणी | हरिहरात्मिका विद्या ब्रह्मविष्णुशिवार्चिता || ७७ || विशेषानुग्रहेणैव विज्ञेया शङ्कर प्रभो | यत्र कुत्र स्थले नाथ शाक्तस्तिष्ठति गच्छति || ७८ || तत्रैवाऽहं महादेव निश्चितं मतमुत्तमम् | शक्तिमार्गं परित्यज्य योऽन्यमार्गं विधावति || ७९ || करस्थं स मणिं त्यक्त्वा भूतिभावं विधावति | इत्येवं च महादेव मयोक्तं जगदीश्वर || अतः परतरं नास्ति नास्ति नास्ति सदाशिव || ८० || || इति मुण्डमालातन्ते सप्तमः पटलः || ७ || अथ अष्टमः पटलः श्रीदेवी उवाच नमस्ते पार्वतीनाथ विश्वनाथ दयामय | ज्ञानात् परतरं नास्ति श्रुतं विश्वेश्वर प्रभो || १ || दीननाथ दयासिन्धो विश्वेश्वर जगत्पते | इदानीं श्रोतुमिच्छामि गोप्यं परमकारणम् | रहस्यं कालिकायाश्च तारायाश्च सुरोत्तम || २ || श्रीशिव उवाच रहस्यं किं वदिष्यामि पञ्चवक्त्रैर्महेश्वरि | जिह्वाकोटिसहस्रैस्तु वक्त्रकोटिशतैरपि || ३ || तथापि तस्य माहात्म्यं न शक्नोमि कथञ्चन | तस्या रहस्यं गोप्यं च किं न जानामि शाङ्करि || ४ || स्वस्यैवं चरितं वक्तुं स्वयमेव क्षमो भवेत् | अन्यथा नैव देवेशि न जानाति कथञ्चन || ५ || कालिकायाः शतं नाम नानातन्त्रे त्वया श्रुतम् | रहस्यं गोपनीयं च तन्त्रेऽस्मिन् जगदम्बिके || ६ || करालवदना काली कामिनी कमला कला | क्रियावती कोटराक्षी कामाख्या कामसुन्दरी || ७ || कापाला च कराला च काशी कात्यायनी कुहूः | कङ्काला कालदमना करुणा कमलार्चिता || ८ || कादम्बरी कलहरा कौतुकी कारणप्रिया | कृष्णा कृष्णप्रिया कृष्णपूजिता कृष्णवल्लभा || ९ || कृष्णापराजिता कृष्णप्रिया च कृष्णरूपिणी | कालिका कालरात्रिश्च कुलजा कुलपण्डिता || १० || कुलधर्मप्रिया कामा काम्यकर्मविभूषिता | कुलप्रिया कुलरता कुलीनपरिपूजिता || ११ || कुलज्ञा कमला पूज्या कैलासगणभूषिता | कटजा केशिनी कामा कामदा कामपण्डिता || १२ || करालास्या च कन्दर्पा कामिनीरूपशोभिता | कोलम्बका कोलरता केलिनी केशभूषिता ||१३ || केशवस्य प्रिया काशा काश्मीरा केशवार्चिता | कामेश्वरी कामरूपा कामदानविभूषिता || १४ || कालहन्त्री कूर्ममांसप्रिया कूर्मादिपूजिता | केलिनी करका कारा करकर्मनिषेविणी || १५ || कटकेशवमध्यस्था कटकीटकरार्चिता | कटप्रिया कटरता कटकर्मनिषेविणी || १६ || कुमारीपूजनरता कुमारीगणसेविता | कुलजा च प्रिया कौलप्रिया कुलनिषेविणी || १७ || कुलीना कुलधर्मज्ञा कुलभीतिविमर्दिनी | कामधर्मप्रिया काम्या नित्यकर्मस्वरूपिणी || १८ || कामरूपा कामहरा काममन्दिरपूजिता | कामागारस्वरूपा च कालाख्या कालभूषिता || १९ || क्रियाभक्तिरता काल्या काञ्चनी कामादायिनी | कोलपुष्पाम्बरा कोला निकोला कोलहन्तका || २० || कोषिकी केतकी कुम्भी कुन्तलादिविभूषिता | इत्येवं शृणु चार्वङ्गि रहस्यं सर्वमङ्गलम् || २१ || यः पठेत् परया भक्त्या स शिवो नात्र संशयः | शतनामप्रसादेन किं न सिध्यति भूतले || २२ || ब्रह्मा विष्णुश्च रुद्रश्च वासवाद्या दिवौकसः | रहस्यपठनाद् देवि सर्वे च विगतज्वराः || २३ || त्रिषु लोकेषु विश्वेशि सत्यं गोप्यमतः परम् | नास्ति नास्ति महामाये तन्त्रमध्ये कथञ्चन || २४ || क्रियया च विना देवि विना भक्त्या महेश्वरि | प्रसन्नास्या करालास्या स्तवपाठाद् दिगम्बरि || २५ || सत्यं वच्मि महेशानि अतः परतरं नहि | न गोकुले न वैकुण्ठे न च कैलासमन्दिरे || २६ || अतः परतरा विद्या स्तोत्रं कवचमेव च | त्रिलोकेषु जगद्धात्रि नास्ति नास्ति कदाचन || २७ || रात्रावपि दिवाभागे निशाभागे सुरेश्वरि | प्रजषेद् भक्तिभावेन रहस्यं स्तवमुत्तमम् || २८ || शतनामप्रसादेन मन्त्रसिद्धिः प्रजायते | कुजवारे चतुर्दश्यां निशाभागे जपेत् तु यः || २९ || स कृती सर्वशास्त्रज्ञः स कुलीनः सदा शुचिः | स कुलज्ञः स कालज्ञः स धर्मज्ञो महीतले || ३० || रहस्यपठनात् कोटिपुरश्चरणजं फलम् | प्राप्नोति देवदेवेशि सत्यं परमसुन्दरि || ३१ || स्तवपाठाद् वरारोहे किं न सिध्यति भूतले | अणिमाद्यष्टसिद्धिः स्याद् भवत्येव न संशयः || ३२ || रात्रौ बिल्वतलेऽश्वत्थमूलेऽपराजितातले | प्रपठेत् कालिकास्तोत्रं यथाशक्ति महेश्वरि || ३३ || शतवारप्रपठनान्मन्त्रसिद्धिर्भवेद् ध्रुवम् | उपायो नास्ति देवेशि महामन्त्रस्य साधने || २४ || अतः परतरं देवि नासि ब्रह्माण्डमण्डले | नानातन्त्रं श्रुतं देवि मम वक्त्रात् सुरेश्वरि || ३५ || मुण्डमालामहातन्त्रं महामन्त्रस्य साधनम् | भक्त्या भगवतीं दुर्गां दुःखदारिद्र्यनाशिनीम् || ३६ || संस्मरेत् प्रजपेद् ध्यायेत् स मुक्तो नात्र संशयः | जीवन्मुक्तः स विज्ञेयस्तन्त्रभक्तिपरायणः || ३७ || यः साधको महाज्ञानी यश्च दुर्गासदानुगः | न च भक्तिर्न वा मुक्तिर्न मुक्तिर्नगनन्दिनि || ३८ || विना दुर्गां जगद्धात्रि निष्फलं जीवनं भवेत् | शक्तिमार्गरतो भूयो योऽन्यमार्गे प्रधावति || ३९ || न च शाक्तास्तस्य वक्तुं पारं पश्यन्ति सुन्दरि | विना दुर्गां जगद्धात्रि वाग्जाले शास्त्रमोहिताः || ४० || अन्यदेवं भजन्त्येते चान्ये शास्त्रे विघूर्णिताः | विना तन्त्राद् विना मन्त्राद् विना यन्त्रान्महेश्वरि || ४१ || न च भक्तिश्च मुक्तिश्च जायते वरवर्णिनि | तन्त्रवक्तागुरुः साक्षाद् यथा च ज्ञानदः शिवः || ४२ || यथा गुरुर्महेशानि तथा च परमो गुरुः | यथा परापरगुरुः परमेष्ठिर्यथा गुरुः || ४३ || तथा चैव हि तन्त्रज्ञस्तन्त्रवक्ता गुरुः स्वयम् | तन्त्रं च तन्त्रवक्तारं निन्दन्ति तान्त्रिकीं क्रियाम् || ४४ || ये जना भैरवास्तेषां मांसास्थिचर्वणोद्यताः | अत एव हि तन्त्रज्ञं न निन्दन्ति कदाचन || न हसन्ति न हिंसन्ति न वदन्ति कदाचन || ४५ || श्रीपार्वती उवाच शृणु देव जगद्वन्द्य मद्वाक्यं दृढनिश्चितम् | तव प्रसादाद् देवेश श्रुतं कालीरहस्यकम् || इदानीं श्रोतुमिच्छामि ताराया वद साम्प्रतम् || ४६ || श्रीशिव उवाच धन्यासि देवदेवेशि दुर्गे दुर्गार्तिनाशिनि | यं श्रुत्वा मोक्षमाप्नोति पठित्वा नगनन्दिनि || ४७ || तारिणी तरला तन्वी तारा तरणवल्लरी | तीररूपा तटश्यामा तनुक्षीणपयोधरा || ४८ || तुवीरा तरला तीव्रा नयना नीलवाहिनी | उग्रतारा जया चण्डी श्रीमदेकजटा शिवा || ४९ || तरुणा शाम्भवी च्छिन्ना भागा च भद्रतारिणी | उग्रतारा जया चण्डी श्रीमदेकजटा शिवा || ४९ || तरुणा शाम्भवी च्छिन्ना भागा च भद्रतारिणी | उग्रा उग्रप्रभा नीला कृष्णा नीलसरस्वती || ५० || द्वितीया शोभिनी नित्या नवीना नित्यनूतना | चण्डिका विजयाऽऽराध्या देवी गगनवाहिनी || ५१ || अट्टहास्या करालास्या चतुरास्यादिपूजिता | सगुणा सगुणाराध्या हरीन्द्रदेवपूजिता || ५२ || रक्तप्रिया च रक्ताक्षी रुधिरा सर्वभूषिता | बालप्रिया बालरता दुर्गा बलवती बला || ५३ || बलप्रिया बलरता बलरामप्रपूजिता | अर्द्धकेशेश्वरी केशा केशवेशविभूषिता || ५४ || पद्ममाला च पद्माख्या कामाख्या गिरिनन्दिनि | दक्षिणा चैव दक्षा च दक्षजा दक्षिणे रता || ५५ || वज्रपुष्पप्रिया रक्तप्रिया कुसुमभूषिता | माहेश्वरी महादेवप्रिया पञ्चविभुषिता || ५६ || इडा च पिङ्गला चैव सुषुम्ना प्राणरूपिणी | गान्धारी पञ्चमी पञ्चाननादिपरिपूजिता || ५७ || इत्येतत् कथितं देवि रहस्यं परमात्मकम् | श्रुत्वा मोक्षमवाप्नोति तारादेव्याः प्रसादः || ५८ || य इदं प्रपठेत् स्तोत्रं तारायास्तु रहस्यकम् | सर्वसिद्धीश्वरो भूत्वा विहरेत् क्षितिमण्डले || ५९ || तस्यैव मन्त्रः सिद्धः स्यामन्त्रसिद्धिरनुत्तमा | भवत्येवं महामाये सत्यं सत्यं न संशयः || ६० || मन्दे मङ्गलवारे च यः पठेन्निशि संयतः | तस्यैव मन्त्रसिद्धिः स्याद् गाणपत्यं लभेत् तु सः || ६१ || श्रद्धयाऽश्रद्धया वापि पठेत् तारारहस्यकम् | सोऽचिरेणैव कालेन जीवन्मुक्तः शिवो भवेत् || ६२ || सहस्रावर्तनाद् देवि पुरश्चर्याफलं लभेत् | एवं सततयुक्तास्ते ध्यायन्तस्तामुपासते || ६३ || ते कृतार्था महेशानि मृत्युसंसारबन्धनात् | रहस्यं तारिणीदेव्याः कालिकायाः श्रुतं त्वया || ६४ || सारं परमगोप्यं च शिवध्येयं शिवप्रदम् | इदानीं च वरारोहे भूयः किं श्रोतुमिच्छसि || ६५ || इति मुण्डमालातन्त्रे कालीतारारहस्येष्टमः पटलः || ८ || अथ नवमः पटलः रहस्यं पार्वतीनाथवक्त्रात् श्रुत्वा च पार्वती | महादेवं महेशानमीशमाह महेश्वरी || १ || श्रीपार्वती उवाच त्रिलोकेश जगन्नाथ देवदेव सदाशिव | त्वत्प्रसादान्महादेव श्रुतं तन्त्रं पृथग्विधम् || २ || इदानीं वर्तते श्रद्धाऽऽगमशास्त्रे ममैव हि | यदि प्रसन्नो भगवान् ब्रूह्युपायं महोदयम् || ३ || नानातन्त्रे महादेव श्रुतं नानाविधं मतम् | कृतार्थास्मि कृतार्थास्मि कृतकार्थास्मि शङ्कर || ४ || प्रसन्ने शङ्करे नाथ किं भयं जगतीतले | विना शिवप्रसादेन न सिध्यति कदाचन || इदानीं श्रोतुमिच्छामि भुवनाया रहस्यकम् || ५ || श्रीशङ्कर उवाच शृणु देवि प्रवक्ष्यामि गुह्याद् गुह्यतरं परम् | षठित्वा परमेशानि मन्त्रसिद्धिमवाप्नुयात् || ६ || आद्या श्रीभुवना भव्या भवबन्धविमोचिनी | नारायणी जगद्धात्री शिवा विश्वेश्वरी परा || ७ || गान्धारी परमा विद्या जगन्मोहनकारिणी | सुरेश्वरी जगन्माता विश्वमोहनकारिणी || ८ || भुवनेशी महामाया देवेशी हरवल्लभा | कराला विकटाकारा महाबीजस्वरूपिणी || ९ || त्रिपुरेशी त्रिलोकेशी दुर्गा त्रिभुवनेश्वरी | नित्या च निर्मला देवी सर्वमङ्गलकारिणी || १० || सदाशिवप्रिया गौरी सर्वमङ्गलशोभनी | शिवदा सर्वसौभाग्यदायिनी मङ्गलात्मिका || ११ || घोरदंष्ट्रा करालास्या मधुमांसबलिप्रिया | सर्वदुःखहरा चण्डी सर्वमङ्गलकारिणी || १२ || पार्वती तारिणी देवी भीमा भयविनाशिनी | त्रैलोक्यजननी तारा तारिणी तरुणाक्षमा || १३ || भुक्तिमुक्तिप्रदा भक्तिसदाशङ्करवल्लभा | उमा गौरी प्रिया साध्वी प्रिया च वारुणप्रिया || १४ || भैरवी भैरवानन्ददायिनी भैरवात्मिका | ब्रह्मपूज्या च ब्रह्माणी रुद्राणी रुद्रपूजिता || १५ || रुद्रेश्वरी रुद्ररूपा त्रिपुटा त्रिपुरा मता | भवानी च भवानन्ददायिनी भवगेहिनी || १६ || सुरपूज्येश्वरी चण्डी प्रचण्डा घोरनादिनी | घनश्यामा घनवती महाघननिनादिनी || १७ || घोरजिह्वा ललज्जिह्वा वैदेशी नगनन्दिनी | त्रैलोक्यमोहिनी विश्वमोहिनी विश्वरूपिणी || १८ || षोडशी त्रिपुरा ब्रह्मदायिनी ब्रह्मदाऽनघा | इत्येतत् परमं ब्रह्मस्तोत्रं परमकारणम् || १९ || यः पठेत् परया भक्त्या जीवन्मुक्तः स एव हि | ब्रह्माद्या देवताः सर्वा मुनयस्तन्त्रकोविदाः || २० || पठित्वा परया भक्त्या ब्रह्मसिद्धिमवाप्नुयुः | मन्त्रसङ्केतमज्ञात्वा विद्यासङ्केतकं तथा || २१ || वीरसङ्केतकं देवि सङ्केतं बहुविस्तरम् | -----------------योनिमुद्रात्मकं प्रिये || २२ || सङ्केतं समयाचारं कुलसङ्केतकं तथा | ब्रह्मसङ्केतकं चण्डि कालसङ्केतकं तथा || २३ || यन्त्रसङ्केतकं सिद्धिसङ्केतकं बहुविस्तरम् | कुलार्णवे श्रुतं नाथ श्रुतं मे मोहने प्रभो || २४ || श्रीशङ्क्र उवाच विद्यानामुत्तमा विद्या महाविद्या प्रकीर्तिता | यासां स्मरणमात्रेण मन्त्रसिद्धिः प्रजायते || २५ || मन्त्रसङ्केतमज्ञात्वा यो यजेद् विश्वमोहिनीम् | शतवर्षजपेनापि तस्य सिद्धिर्न जायते || २६ || विद्याद्या च द्वितीया षोडशी भुवनेश्वरी | भैरवीज्ञानमात्रेण सिद्धिविद्या भवन्ति हि || २७ || इडापिङ्गलयोर्मध्ये दुर्गमा विश्वमोहिनी | तस्याः प्रभेदसंस्कारं यो जानाति स पण्डितः || २८ || स धन्यः स कृती लोके स वीरः सर्वशः शुचिः | स भैरवश्च विज्ञेयः सदा सुखविवर्द्धकः || २९ || एवं करालवदनां मुण्डमालाविभूषिताम् | यो जानाति जगद्धात्रीं जीवन्मुक्तः स एव हि || ३० || विशेषं च प्रवक्ष्यामि कुलभक्त्या च सिध्यति | कुलभक्तिं विना देवि न भक्तिर्न च सद्गतिः || ३१ || सत्ये तु सुन्दरी आद्या त्रेतायां भुवनेश्वरी | द्वापरे तारिणी विद्या कलौ काली प्रकीर्तिता || ३२ || नामभेदं प्रवक्ष्यामि कल्पभेदं वरानने | न भेदः कालिकायाश्च ताराया जगदम्बिके || ३३ || षोडश्या भुवनायाश्च भैरव्यास्त्रिपुरेश्वरि | छिन्नायाश्चैव धूमाया भीमायाः परमेश्वरि || ३४ || ततश्च बगलामुख्या मातङ्ग्याश्च सुरेश्वरि | नच भेदो महेशानि विद्याया वरवर्णिनि || ३५ || श्रीपार्वती उवाच विश्वनाथ महादेव महेश्वर जगद्गुरो | पृच्छाम्येकं महाभाग योगेन्द्र वृषभध्वज || ३६ || कृष्णायाः करवीरस्य द्रोणस्य तु सदाशिव | बिल्वपत्रस्य माहात्म्यम् जपाया वद शङ्कर || ३७ || श्रीशिव उवाच धन्याऽसि पतिभक्ताऽसि प्राणतुल्याऽसि शाङ्करि | अतिगोप्यं जगद्धात्रि देवानामतिदुर्लभम् || ३८ || कृष्णाऽपराजिता साक्षात् भद्रकाली न संशयः | करवीरं च भुवना द्रोणं त्रिपुरसुन्दरी || ३९ || जपा साक्षाद् भगवती सर्वविद्यास्वरूपिणी | ये साधका जगन्मातरर्चयन्ति शिवप्रियाम् || ४० || एतैश्च कुसुमैश्चण्डीं ते शिवा नात्र संशयः | किं जपैः किं तपोभिर्वा किं दानैः किं त्रिमध्वकैः || ४१ || येनाऽर्चिता जगद्धात्री द्रोणकृष्णा जपादिभिः | राजसूयाश्च मेधाद्यैर्वाजपेयाऽग्निहोमकैः || ४२ || फलं यज्जायते चण्डि तत् सर्वं कुसुमार्चनात् | जपां द्रोणं तथा कृष्णं मन्दरं करवीरजम् || ४३ || साक्षाद् ब्रह्मस्वरूपं च महादेव्यै निवेदयेत् | श्वेतचन्दनसंयुक्तं रक्तचन्दनलेपितम् || ४४ || यो दद्याद् भक्तिभावेन स विश्वेशो न संशयः | महाघोरे महोत्पाते महाविपदि सङ्कटे || ४५ || महादुःखे महारोगे महाशोके महाभये | पूजयेत् कालिकां तारां भुवनां षोडशीं शिवाम् || ४६ || बालां छिन्नां च बगलां धूमां भीमां करालिनीम् | कमलामन्नपूर्णां च दुर्गां दुःखविनाशिनीम् || ४७ || सर्वविद्याजपाद्रोणकरवीरैर्मनोहरैः | मालूरपत्रैः कृष्णाभिः कृष्णं सम्पूज्य भूतले || ४८ || साधकेन्द्रो महेशानि स भवेन्नात्र संशयः | लक्षाणां महिषैर्मेषैरजैर्दानैः खरैः शुभैः || ४९ || पूजिता सा जगद्धात्री यद्येषा कुसुमार्चिता | माहात्म्यं चापि कृष्णायाः कृष्णा जानाति भूतले || ५० || तदर्द्धं चाऽप्यहं देवि तदर्द्धं श्रीपतिः सदा | तदर्द्धमब्जजन्मा वै तदर्द्धं वेदसाधकः || ५१ || अस्य पुष्पस्य माहात्म्यं सङ्क्षेपाद् वच्मि शाङ्करि | पृथिव्यामतले स्वर्गे वैकुण्ठे कालिकापुरे || ५२ || जपादिकरवीरैश्च दानैः किं किं फलं लभेत् | न जानामि जगद्धात्रि को वेद पार्वतीं विना || ५३ || करवीरैः श्वेतरक्तै रक्तचन्दनमिश्रितैः | पूजयेत् क्ष्मातले यस्तु स विश्वेशो भवेद् ध्रुवम् || ५४ || कृष्णापराजितापुष्पैर्यस्तु देवीं प्रपूजयेत् | सोऽश्वमेधसहस्राणां फलं प्राप्य शिवो यजेत् || ५५ || बिल्वपत्रस्य माहात्म्यं देवानामपि दुर्लभम् | यो दद्याद् बिल्वपत्रं च शिवायै शङ्कराय च || ५६ || सदाशिवसमो भूत्वा स गच्छेद् ब्रह्ममन्दिरम् | महाविपत्तौ देवेशि जपां कृष्णापराजिताम् || ५७ || द्रोणं वा करवीरं वा स गच्छेत् कालिकापुरम् | किं च पाद्यैः किं च वाद्यैर्नैवेद्यैः किं च पूजनैः || ५८ || मधुदानैर्मधुपर्कैः कुम्भकैः किं च रेचकैः | पूरकैः किं च वा ध्यानैः प्राणायामैश्च किं च वा || ५९ || किं जपैः किं तपोभिर्वा मत्स्यैर्मांसैश्च पञ्चमैः | किमन्यमन्त्रैः किं तन्त्रैः किं यन्त्रैः किं च साधनैः || ६० || किं च वै वासवैः किं वा श्मशानैर्मन्त्रसाधनैः | किमध्वरैर्मन्त्रपूतैमन्त्रार्थैर्मन्त्रजीवनैः || ६१ || किं योनिमुद्रया किं वा तीर्थैः किं ब्रह्मसाधनैः | किं मातृकान्यासवर्गैः किं कच्छैः किं घटैः पटैः || ६२ || किं काकचञ्चुभिः षोढान्यासैः किं कर्मसाधनैः | येनार्चिता भगवती करवीरैर्जपादिभिः || ६३ || कृष्णापराजितापुष्पैः करवीरैर्मनोहरैः | द्रोणैस्तु केतकीपुष्पैर्जपामालूरपत्रकैः || ६४ || पूजिता यैर्भगवती तेषां किं कर्मसाधनैः | इत्येवं च श्रुतं देवि रहस्यं परमं शिवम् || ६५ || श्रुत्वा यं मोक्षमाप्नोति साधको नात्र संशयः | तन्त्रराजं माहेशानि सारात् सारतरं प्रिये || ६६ || श्रुत्वा ज्ञात्वा मोक्षमाशु लभते नात्र संशयः | महाभये बन्धने च विपत्तौ बहुसङ्कटे || ६७ || पूजयित्वा जगद्धात्रीं मुच्यते भवबन्धनात् | श्रद्धयाऽश्रद्धया वापि यः कश्चित् तारिणीं यजेत् || ६८ || स धन्यः स कविर्धीरः सर्वशास्त्रार्थकोविदः | स च मानी स च ज्ञानी पूजयेद् यस्तु कालिकाम् || इत्येवं च श्रुतं देवि भूयः किं श्रोतुमिच्छस्ति || ६९ || || इति श्रीमुण्डमालातन्त्रे नवमः पटलः || ९ || अथ दशमः पटलः श्रीदेवी उवाच देवदेव महादेव नीलकण्ठ सदाशिव | नमस्ते परमेशान विश्वनाथ नमोऽस्तु ते || १ || नमस्ते परमेशान सदाशिव महेश्वर | नमस्ते परमानन्द ज्ञानमोक्षप्रदायक || २ || नमस्ते पार्वतीनाथ नमस्ते भक्तवत्सल | प्रसीद मां जगद्बन्धो गोप्यं वद सदाशिव || ३ || श्रीशिव उवाच शृणु देवि जगद्धात्रि सारात् सारतरं परम् | श्रुत्वा मोक्षमवाप्नोति साधकेन्द्रो महीतले || ४ || शृणुयाद् यो मुण्डमालातन्त्रं परमकारणम् | ज्ञानदं मोक्षदं भक्तिमुक्तिसौख्यप्रदं शिवे || ५ || इत्येवं परमं देवीं देवानामपि दुर्लभम् | यो वेद धरणीमध्ये स एव परमार्थवित् || ६ || शक्तिमार्गं विना जन्तोर्न भक्तिर्न च सद्गतिः | शक्तिमूलं जगत् सर्वं शक्तिमूलं परं तपः || ७ || शक्तिमूलं परं कर्म जन्म शर्म महीतले | विना शक्तिप्रसादेन न मुक्तिर्जायते प्रिये || ८ || श्रुतं देवि वरारोहे सर्वं गोप्यं महीतले | अन्यद् गोप्यं किं वदसि तत् सर्वं वद सुव्रते || ९ || श्रीपार्वती उवाच शृणु देव महादेव कथयस्व जगद्गुरो | कथमुत्पद्यते ज्ञानं कथयस्व कृपानिधे || १० || श्रीशिव उवाच अहोभाग्यमहोभाग्यमहोभाग्यं सुरेश्वरि | कृतार्थोऽहं कृतार्थोऽहं कृतराज्यो महेश्वरि || ११ || ज्ञानकाण्डं महेशानि सारात् सारतरं शिवम् | ज्ञानं च द्विविधं ज्ञेयं दुर्ज्ञेयं मनसामपि || १२ || ज्ञानं परमतत्त्वाख्यं ज्ञानं ज्ञेयार्थसाधनम् | अन्य विभ्रान्तिविषयं ज्ञानं साधारणं मतम् || १३ || एवं च त्रिविधं शेषं मध्यमं तत्त्ववर्जितम् | तत्त्वज्ञानं वरारोहे योगीन्द्राणां च दुर्लभम् || १४ || विना तत्त्वपरिज्ञानाद् विफलं पूजनं तपः | एको देवश्च एकोऽहमात्मभिन्नशरीरतः || १५ || घटात् पटात् माहेशानि कालचक्रान्महीरुहात् | एवं ज्ञानं तत्त्वमयं तदा मुक्तोऽचिरेण तु || १६ || नानाकारणमेवास्य पूजनं ध्यानमेव च | सेवनं चैव तीर्थानां शरणं तारिणीपदम् || १७ || स्मरणं सहराजस्य भ्रमणं वै कुलावलम् | सत्सङ्गसेवनं विष्णोः शङ्करस्यापि पूजनम् || १८ || कालिकापादयुगलं भजनं ज्ञानकारणम् | यावन्मनास्त्वमेव स्यात् तावद् भिन्ना महीतले || १९ || तावज्जातिश्च गोत्रं च तावन्नाम पृथग्विधम् | तावल्लिङ्गं पृथक् सर्वं वर्णानां पृथगेव हि || २० || तावन्मित्रौ विपक्षौ च तावत् कलत्रबान्धवौ | तावत् पृथग्विधा तन्त्रयन्त्रमन्त्रार्चनादिभिः || २१ || तावत् पुण्यं तावदेव पापपुण्यविवर्द्धकम् | तावत् त्वं चाप्ययमियं च जायते प्रिये || २२ || यावन्न जायते चण्डि विद्याऽविद्याविरोधिनी | अविद्यानाशिनी विद्या विद्याऽविद्याविमर्दिनी || २३ || या तारिणी महाविद्या विद्याऽविद्याविरूपिणी | अत एव वरारोहे विद्यामुत्पाद्य भूतले || २४ || निर्वाणमोक्षमाप्नोति सत्यं परमसुन्दरि | श्रीदुराचरणाम्भोजे भक्तिश्चाव्यभिचारिणी || २५ || तदैव जायते ब्रह्मज्ञानं ब्रह्मादिदुर्लभम् | ब्रह्मा विष्णुश्च रुद्रश्च वासवाद्या दिवौकसः || २६ || भैरवाश्चैव गन्धर्वा विद्याभ्याससमुत्सुकाः | ब्रह्मविद्यासमा विद्या ब्रह्मविद्यासमा क्रिया || २७ || ब्रह्मविद्यासमं ज्ञानं नास्ति नास्ति कदाचन | तत्त्वज्ञानं श्रुतं देवि किं भूयः श्रोतुमिच्छसि || २८ || श्रीपार्वती उवाच नमस्तुभ्यं महादेव विश्वनाथ जगद्गुरो | श्रुतं ज्ञानं महादेव नानातन्त्रं तवाङनात् || २९ || इदानीं चण्डिकायास्तु गुह्यस्तोत्रं वद प्रभो | कवचं ब्रूहि मे नाथ मन्त्रचैतन्यकारणम् || ३० || मन्त्रसिद्धिकरं गुह्याद् गुह्यं मोक्षविधायकम् | श्रुत्वा मोक्षमवाप्नोति ज्ञात्वा विद्यां महेश्वरि || ३१ || श्रीशिव उवाच दुर्लभं तारिणीमार्गं दुर्लभं तारिणीपदम् | मन्त्रार्थं मन्त्रचैतन्यं दुर्लभं शवसाधनम् || ३२ || श्मशानसाधनं योनिसाधनं ब्रह्मसाधनम् | क्रियासाधनकं भक्तिसाधनं मुक्तिसाधनम् || ३३ || स्तवप्रसादाद् देवेशि सर्वाः सिध्यन्ति सिद्धयः | नमस्ते चण्डिके चण्डिअ चण्डमुण्डविनाशिनि || ३४ || नमस्ते कालिके कालमहाभयविनाशिनि | शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे || ३५ || प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् | जगत्क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् || ३६ || करालां विकटां घोरां मुण्डमालाविभूषिताम् | हरार्चितां हराराध्यां नमामि हरवल्लभाम् || ३७ || गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् | हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् || ३८ || सिद्धां सिद्धेश्वरीं सिद्धविद्याधरगणैर्युताम् | मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् || ३९ || प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् | उमामुग्रमयीमुग्रां तारामुग्रगणैर्युताम् || ४० || नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् | श्यामाङ्गी श्यामघटितां श्यामवर्णविभूषिताम् || ४१ || प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् | विश्वेश्वरीं विश्वघोरां विकटां घोरनादिनीम् || ४२ || आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् | श्रीदुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम् || ४३ || प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् | त्रिपुरां सुन्दरीं बालामालागणविभूषिताम् || ४४ || शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् | सुन्दरीं तारिणीं सर्वशिवागणविधूषिताम् || ४५ || नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् | सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् || ४६ || सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् | विद्यासिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् || ४७ || महेशभक्तां महेशीं महाजलप्रपूजिताम् | प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् || ४८ || रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् | भैरवीं भुवनां देवीं लोलजिह्वां सुरेश्वरीम् || ४९ || चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् | त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् || ५० || अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् | कमलां छिन्नभालां च मातङ्गी सुरसुन्दरीम् || ५१ || षोडशीं त्रिपुरां भीमां धूमां च बगलामुखीम् | सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् || ५२ || प्रणमामि जगत्तारां सारां च मन्त्रसिद्धये | इत्येवं च वरारोहे स्तोत्रं सिद्धिकरं परम् || ५३ || पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि | कुजवारे चतुर्दश्याममायां जीववासरे || ५४ || शुक्रे निशागते स्तोत्रं पठित्वा मोक्षमाप्नुयात् | त्रिपक्षे मन्त्रसिद्धिः स्यात् स्तोत्रपाठाद्धि शाङ्करि || ५५ || चतुर्दश्यां निशाभागे शनिभौमदिने तथा | निशामुखे पठेत् स्तोत्रं मन्त्रसिद्धिमवाप्नुयात् || ५६ || केवलं स्तोत्रपाठाद्धि मन्त्रसिद्धिमनुत्तमाम् | जागर्त्ति सततं चण्डि स्तवपाठाद् भुजङ्गिनी || ५७ || इत्येवं च श्रुतं स्तोत्रं कवचं शृणु पार्वति | सदाशिव ऋषिर्देवि उष्णिक् छन्द उदाहृतम् || ५८ || विनियोगश्च देवेशि ततश्च मन्त्रसिद्धये | मस्तकं पार्वती पातु पातु पञ्चाननप्रिया || ५९ || केशं मुखं पातु चण्डी भारती रुधिरप्रिया | कण्ठं पातु स्तनं पातु कपालं गण्डमेव हि || ६० || काली करालवदना विचित्रा स्वरघट्टिनी | रक्षमूलं नाभिमूलं दुर्गा त्रिपुरसुन्दरी || ६१ || दक्षहस्तं पातु तारा सर्वाणी सर्वमेव च | विश्वेश्वरी पृष्ठदेशं नेत्रं पातु महेश्वरी || ६२ || हृत्पद्मं कालिका पातु उग्रतारा नभोगतम् | नारायणी गुह्यदेशं मेढ्रं मेढ्रेश्वरी तथा || ६३ || पादयुग्मं जया पातु सुन्दरी चाङ्गुलीषु च | षट्पद्मवासिनी पातु सर्वपद्मं निरन्तरम् || ६४ || इडा च पिङ्गला पातु सुषुम्ना पातु सर्वदा | धनं धनेश्वरी पातु अन्नपूर्णा सदाऽवतु || ६५ || बाह्यं बाह्येश्वरी पातु नित्यं मां चण्डिकाऽवतु | जीवं मां पार्वती पातु मातङ्गी पातु सर्वदा || ६६ || छिन्ना धूमा च भीमा च भये पातु जले वने | कौमारी चैव वाराही नारसिंही यशो मम || ६७ || पातु नित्यं भद्रकाली श्मशानालयवासिनी | उदरे सर्वदा पातु सर्वाणी सर्वमङ्गला || ६८ || जगन्माता जयं पातु नित्यं कैलासवासिनी | शिवप्रियासुतं पातु सुतां पर्वतनन्दिनी || ६९ || त्रैलोक्यं पातु बगला भुवनं भुवनेश्वरी | सर्वाङ्गं सर्वनिलया पातु नित्यं च पार्वती || ७० || चामुण्डा पातु मे रोमकूपं सर्वार्थसाधिनी | ब्रह्माण्डं मे महाविद्या पातु नित्यं मनोहरा || ७१ || लिङ्गं लिङ्गेश्वरी पातु महापीठं महेश्वरी | गौरी मे सन्धिदेशं च पातु वै त्रिपुरेश्वरी || ७२ || सुरेश्वरी सदा पातु श्मशाने च शवेऽवतु | कुम्भके रेचके चैव पूरके काममन्दिरे || ७३ || कामाख्या कामनिलयं पातु दुर्गा सुरेश्वरी | डाकिनी काकिनी पातु सत्यं मे शाकिनी तथा || ७४ || हाकिनी राकिणी पातु राकिणी पातु सर्वदा | ज्वालामुखी सदा पातु मुखं मध्ये सदाऽवतु || ७५ || तारिणी विभवे पातु भवानी च भबेऽवतु | त्रैलोक्यमोहिनी पातु सर्वाङ्गं विजनेऽवतु || ७६ || राजकुले महाघाते सङ्ग्रामे शत्रुसङ्कटे | प्रचण्डा साधकं मां च पातु भैरवमोहिनी || ७७ || श्रीराजमोहिनी पातु राजद्वारे विपत्तिषु | सम्पत्प्रदा भैरवी च पातु बाला बलं मम || ७८ || नित्यं मां शम्भुवनिता पातु मां त्रिपुरान्तका | इत्येवं कथितं देवि रहस्यं सार्वकालिकम् || ७९ || भुक्तिदं मुक्तिदं सौख्यं सर्वसम्पत्प्रदायकम् | यः पठेत् प्रातरुत्थाय साधकेन्द्रो भवेद् भुवि || ८० || कुजवारे चतुर्दश्याममायां मन्दवासरे | गुरौ गुरुं समभ्यर्च्य यः पठेत् साधकोत्तमः || ८१ || स याति भवनं देव्याः सत्यं सत्यं न संशयः | एवं यदि वरारोहे पठेद् भक्तिपरायणः || ८२ || मन्त्रसिद्धिर्भवेत् तस्य वाऽचिरान्नात्र संशयः | सत्यं लक्षपुरश्चर्याफलं प्राप्य शिवां यजेत् || ८३ || राजमार्गं शिवामार्गं प्राप्य जीवः शिवो भवेत् | पठित्वा कवचं स्तोत्रं मुक्तिमाप्नोति निश्चितम् || ८४ || पठित्वा कवचं स्तोत्रं दशविद्यां यजेद् यतिः | विद्यासिद्धिर्मन्त्रसिद्धिर्भवत्येव न संशयः || ८५ || तदैव ताम्बूले सिद्धिर्जायते नात्र संशयः | शवसिद्धिश्चितासिद्धिर्दुर्लभा धरणीतले || ८६ || अयत्नसुभगा सिद्धिस्ताम्बूलान्नात्र संशयः | निशामुखे निशायां च महाकाले निशान्तरे || पठेद् भक्त्या महेशानि गाणपत्यं लभेत् तु सः || ८७ || || इति मुण्डमालातन्त्रे मन्त्रसिद्धिस्तोत्रकवचं नाम दशमः पटलः || १० || || इति प्रथमं मुण्डमालातन्त्रं समाप्तम् || ########### END OF FILE #######